________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५ ]
बालमनोरमासहिता ।
वृत्रहणौ । हरिं मानयतीति हरिमाणी । नुमि, क्षीरपाणि । विभक्तौ, क्षीरपेण । रम्यविणा । (१०५६) कुमति च ८|४|१३|| कवर्गवत्युत्तरपदे प्राग्वत् । हरिकामिणो । हरिकामाणि । हरिकामेण । ( १०५७) पदव्यवायेऽपि ८|४|३८|| पदेन व्यवधानेऽपि णत्वं न स्यात् । माषकुम्भवापेन । चतुरङ्गयोगेन । 'अतद्धित व्याख्यातमपि प्रकरणानुरोधात् स्मर्यते । नित्यमित्युक्तमिति । आरम्भसामर्थ्यान्नित्यमिदं णत्वमिति तत्रैवोक्तमित्यर्थः । इरिमाणीति । मनेर्ण्यन्तात् 'क्विप् च' इति किपि 'गतिकारकोपपदानाम्' इति सुबुत्पत्तेः प्राक् समासः । नान्तत्वात् ङीप् । अत्र मान् इति प्रातिपदिकमुत्तरपदं तदन्तत्वात् नकारस्य णत्वविकल्पे प्राप्ते नित्यं णत्वम् । नुमीति । उदाह्रियत इति शेषः । क्षीरपाणीति । कर्मण्युपपदे पाधातोः 'आतोऽनुपसर्गे कः' इति कः, 'आतो लोप इटि च' इत्याल्लोपः । क्षीरपशब्दाजश्शसोश्शिः । अजन्तलक्षणो नुम् दीर्घः । तस्य नित्यं णत्वम् । विभक्ताविति । उदाहियत इति शेषः । क्षीरपेणेति । विभक्तिस्थत्वान्नस्य नित्यं णत्वम् । विभक्तावुदाहरणान्तरमाह - रम्यविणेति । विः पक्षी, रम्यश्चासौ विश्व तेनेति विग्रहः । नचात्र 'पदव्यवायेऽपि' इति निषेधः शङ्कयः । किमिह प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य 'सुप्तिङन्तम्' इति पदत्वमभिमतम्, उत तृतीयाविभक्तौ परतः 'स्वादिषु' इति पदत्वम् । नाद्यः । 'उत्तपदत्वे चापदादिविधौ' इति प्रत्ययलक्षणप्रतिषेधात् । न द्वितीयः । 'स्वादिषु' इत्यनेन हि रम्यविशब्दस्यैव पदत्वं लभ्यते, नतु विशब्दस्य, तृतीयाविभक्तेः समुदायादेव विधानात् । अत एव पुनर्भूणामित्यत्र नामि भूशब्दमात्रस्य पदत्वाभावात् 'पदव्यवायेऽपि' इति निषेधाभावाण्णत्वमिति प्राञ्चः । अत्र यद्वक्तव्यं तत् ' पदव्यवायेऽपि ' इत्यत्रानुपदमेव वक्ष्यते ।
I
कुमति च । प्राग्वदिति । प्रातिपदिकान्तनुम्विभक्तिस्थस्य नस्य नित्यं णत्वं स्यादित्यर्थः । अनेकाजुत्तरपदार्थमिदम् । हरिकामिणाविति । 'बहुलमाभीक्ष्ण्ये' इति णिनिः । प्रातिपदिकान्तत्वाण्णत्वम् । हरिकामाणीति । अजन्तलक्षणनुमो नित्यं णत्वम् । हरिकामेणेति । विभक्तिस्थस्योदाहरणम् । पदव्यवायेऽपि । पदेन व्यवधाने इति । पदेनेत्यनन्तरं निमित्तकार्यिणोरिति शेषः । न स्यादिति । 'न भाभूपूकमिगमि' इत्यतस्तदनुवृत्तेरिति भावः । माषकुम्भवापेनेति । माषाणां कुम्भो माषकुम्भः, तस्य वाप इति षष्ठीसमासः । अत्र निमित्तकार्यिणोः षकारनकारयोः कुम्भपदेन व्यवधानात् न णत्वम् । चतुरङ्गयोगनैति । चत्वारि अङ्गानि रथगजतुरगपदातिरूपाणि यस्य तत् चतुरङ्ग सैन्यम्, तेन योग इति विग्रहः । अत्र निमित्तकायिणोरङ्गपदेन व्यवधानान्न णत्वम् । उभयत्रापि कुम्भशब्दस्य अङ्गशब्दस्य च प्रत्ययलक्षणेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वं बोध्यम् ।
For Private and Personal Use Only
६६७