________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिका
प्रथितमेव सकलजगतीतले निखिलजगन्मण्डलमण्डनायमानगीर्वाणवाणीमहाहमणिशाणायमानस्य पाणिनीयतीव्रतरतपस्यासन्तोषितश्रीमहेश्वरवरप्रसादसमवाप्ताक्षरच्छन्दोमूलत्वेन सकलेतरव्याकरणातिशायिनो वेदाङ्गधुरीणतामवलम्बमानस्य पाणिन्युपशव्याकरणस्य अतिसारवत्तरं सकलप्रयोजनमौलिभूतं सहस्त्रवदमसंवर्णितं 'रक्षोहागमलध्वसन्देहा इत्यादिकं प्रयोजनम् ।
तत्र तत्रभवता भगवता पाणिनीयमुनिना विरचिताङ्कररोपणे महर्षिणा पूज्यपादेन कात्यायनेन विरचितपल्लवे तत्रभवता भगवता महाभाष्यकृता पतञ्जलिमुनिना बाढीकृतस्कन्धेऽत्र शाखिनि समारुरुक्षणां तत्फलस्वादरसिकानां सुखसमारोहणाय विरचिताः सोपानपरम्परा इव नानाविधाः प्रबन्धाः पण्डितप्रकाण्डर्मान्यमनीषिभिः।
तेष्वद्यत्वे श्रीमहामहोपाध्यायभट्टोजीदीक्षितविदुषा विरचितो निखिलाचलाप्रथितो वैयाकरणसिद्धान्तानां कौमुदीव 'वैयाकरणसिद्धान्तकौमुदी' नामा ग्रन्थः श्रीमद्वासुदेवदीक्षितविरचितया बालमनोरमाख्यटीकया सनाथीकृतः तत्रभवताम्भवतां पुरतः प्रस्थाप्यते ।
इयं किल बालमनोरमाख्या टीका सरलतया सर्वातिशायिनी व्यापकविषयतया च सकलानामुपलभ्यमानटीकानां स्वस्मिन्नन्तर्भावं सम्पादयन्ती सारवत्तरतया च व्याकरणमहाभाष्यसर्वस्वं ख्यापयन्ती सर्वाङ्गपरिपूर्णतयाचावर्णनीयं किमपि कुतूहलं जयनन्ती विजयतेतराम्। उक्तञ्च कविरहस्येन हि शब्दरत्नकौस्तुभशेखरसुभगीकृताऽपि सा प्रौढा ॥ कुरुते कौमुद्यामिह कुतुकं बालमनोरमा यद्वत् ॥ १ ॥ इति ।
अस्याश्च निर्माता श्रीवासुदेवदीक्षितः श्रीमहादेववाजपेयितनुजन्माऽन्नपूर्णाग जो विद्वन्मूर्धन्योऽध्वरमीमांसाकुतूहलवृत्तिनिर्माता पदवाक्यप्रमाणपारावारपारीणगुरुवर्यश्रीविश्वेश्वरवाजपेययाजिगुरु
For Private and Personal Use Only