________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
वा धर्मं पुत्रं देवदत्तः । ‘दृशेश्व' ( वा ११०८ ) । दर्शयति हरि भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव प्रहृणं, न तु तद्विशेषार्थानामित्यनेन ज्ञाप्यते । तेन स्मरति विघ्रति इत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन । 'शब्दायतेर्न' ( वा ११०५ ) । शब्दाययति देवदत्तेन । धात्वर्थसङ्गृहीत कर्मस्वेनाकर्मकत्वात्प्राप्तिः ।
४२१
प्रेरयतीत्यर्थः । गत्यर्थादिष्वमन्तर्भावाद्वचनम् । नच शब्दनक्रियार्थत्वादेव सिद्धे वचनमिदं व्यर्थमिति वाच्यम्, अत एव 'शब्दकर्माकर्मकाणा' मित्यस्य शब्दः कर्मकारकं येषामित्यर्थात् । अन्यथा वेदमध्यापयद्विधिमित्यसिद्धेः । वार्तिके आदिना व्याहरतिवदत्यादीनां संग्रहः । भाष्ये तु 'के पुनर्जल्पतिप्रभृतयः, जल्पति विलपति आभाषते' इत्येवोक्तम् । परिमणनमित्येके, उदाहरणमात्रप्रदर्शनमित्यन्ये । दृशेश्चेति । 'दृशिर् प्रेक्षणे' अस्याप्यणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः । दर्शयतीति । हरि भक्ताः पश्यन्ति, तान् गुरुः प्रेरयतीत्यर्थः । ननु दृशेर्बुद्धिविशेषात्मकत्वादेव सिद्धे किमर्थमिदं वचनमित्यत आह-सूत्रे इति । 'गतिबुद्धि' इति सूत्रे बुद्धिग्रहणेन ज्ञानसामान्यवाचिनां 'विद ज्ञाने, ज्ञा अवबोधने' इत्यादीनामेव ग्रहणम्, नतु ज्ञानविशेषवाचिनामित्येतत् 'शेश्व' इत्यनेन विज्ञायते । अन्यथा 'हशेश्व' इत्यस्य वैयर्थ्यप्रसङ्गात् । तेनैति । ज्ञापनेनेत्यर्थः । स्मरति जिघ्रतीत्यादीनामिति । आदिना प्रेक्षते इत्यादीनां संग्रहः । स्मारयतीति । स्मरति प्रियां देवदत्तः, जिघ्रति चन्दनं देवदत्तः, तं यज्ञदत्तः प्रेरयतीत्यर्थः ।
शब्दायतेर्नेति । शब्दं करोतीत्यर्थे 'शब्दवैर' इत्यादिना क्यडि, 'अकृत्सार्वधातुकयोः' इति दीर्घे, 'सनाद्यन्ताः' इति धातुत्वे वितपा निर्देशोऽयम् । शब्दायेति
तधातोः अणौ कर्ता णौ कर्म नेति वक्तव्यमित्यर्थः । शब्दाययति देवदत्ते - नेति । शब्दायते देवदत्तः तं यज्ञदत्तः प्रेरयतीत्यर्थः । देवदत्तस्य कर्मत्वाभावात् प्रयोज्यकर्तृत्वमादाय तृतीयैव । अन शब्दकर्मकत्वात् प्राप्तिरिति भ्रमं निरस्यतिधात्वर्थेति । शब्दकर्मकमुत्पादनं शब्दायेति क्यङन्तस्य धातोरर्थः । एवं च शब्दात्मक कर्म धात्वर्थं अन्तर्भूतम् । अतः शब्दायेति क्यङन्तधातुरकर्मकः, 'धात्वर्थवहिर्भूतकर्मकत्वमेव सकर्मकत्वम्' इति 'खुप आत्मनः' इति सूत्रे भाष्ये प्रपञ्चितत्वात् । तस्मादकर्मकत्वादेवात्र प्राप्तिरित्यर्थः । एवं च ' शब्दाययति सैनिकै रिपून' इति कर्म प्रयुञ्जानाः परास्ताः । ननु मासमास्ते देवदत्तः, तं प्रेरयति मासमासयति देवदत्तं यज्ञदत्त इत्यत्र देवदत्तस्य प्रयोज्यकर्तुः कर्मत्वं न स्यात् । आसधातोर्गत्यादिष्वनन्तर्भावात् । न चाकर्मकत्वात्तदन्तर्भाव इति वाच्यम्, 'अकर्मकधातुभिर्योगे' इति मासस्य कर्मतया आसेरकर्मकत्वासम्भवात् । कि च ओदनादिकर्मणः अविवक्षायां
For Private and Personal Use Only