________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२२
सिद्धान्तकौमुदी
[ कारक
येषां देश कालादिमिन्नं कर्म न सम्भवति तेऽत्राकर्मकाः। न त्वविवक्षितकर्माणोऽपि । तेन'मासमासयति देवदत्तम् इत्यादौ कर्मत्वं भवति। 'देवदत्तेन पाचयति' इत्यादौ तु न ।
(५४१) हक्रोरन्यतरस्याम् ११४५३॥ हक्रोरणौ यः कर्ता स गो वा कर्मसंज्ञः स्यात् । हारयति कारयति वा भृत्यं-भृत्येन वा कटम् । 'अभिवादिदृशोरात्मनेपदे वेतिवाच्यम्' (वा १११४ ) अभिवादयते दर्शयते देवं भक्तं-भक्तेन । चा। (५४२) अधिशीस्थाऽऽसाङ्कर्म १।४।४६॥ अधिपूर्वाणामेषामांधारः कर्म स्यात् । अधिशेते-अधितिष्ठति -अध्यास्ते वा वैकुण्ठं हरिः। (५४३) अभि. निविशश्च १४.४७॥ अभिनीत्येतत्सङ्घातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । परिक्रयणे सम्प्रदानम्-' (सू ५८०) इति सूत्रादिह देवदत्तः पचति, पाचयति देवदत्तेन यज्ञदत्त इत्यत्र प्रयोज्यकर्तुदेवदत्तस्य कर्मत्वं स्यात् , तदानी पचेरकर्मकत्वेन गत्यादिष्वन्तर्भावादित्यत आह-येषामिति । इदं च प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् । __ हक्रो । हा च का च हकरौ तयोरिति विग्रहः । हारयति कारयति वेति । हरति करोति वा कटं भृत्यः, तं प्रेरयतीत्यर्थः। अन्न प्रयोज्यकर्तु त्यस्य कर्मत्वविकल्पः । हक्रोर्गत्यर्थादिष्वनन्तर्भावादप्राप्ते विभाषेयम् । हक्रोरान्तरे तु प्राप्तविभाषा । अ. भ्यवहारयति सैन्धवान सैन्धवैर्वा, विकारयति सैन्धवान सैन्धवैर्वा । अत्र अभ्यवह रते क्षणार्थत्वात् विकारयतेरकर्मकत्वाच्च प्राप्तिः । अभिवादीति । हेतुमण्ण्यन्तस्याभिपूर्वकवदधातो शिप्रकृतिकण्यन्तस्य चात्मनेपदिनोऽणौ कर्ता णौ कर्म वेत्यर्थः । अभिवादयते इति । अभिवदति नमस्करोति देवं भक्तः, तं गुरुः प्रेरयतीत्यर्थः । कर्तृगामिनि फले 'णिचश्व' इत्यात्मनेपदम् । अत्र भक्तस्य प्रयोज्यकर्तुः कर्मत्वविकल्पः । अप्राप्तविभाषेयम् । परस्मैपदे तु अभिवादयति देवं भक्तनेत्येव । पश्यति देवं भक्तः, तं गुरुः प्रेरयति । दर्शयते देवं भक्तं भक्तेन वा। 'गतिबुद्धि' इत्यत्र बुद्धिग्रहणेन ज्ञानसामान्यवाचिन एव ग्रहणमित्युक्तम् । तथापि 'दृशेश्व' इति नित्यं प्राप्ते विकल्पः। ___ अधिशीथासां कर्म । शीङ, स्था, आस् एषां द्वन्द्वः। अधिपूर्वाः शीवस्थासः इति विग्रहे शाकपार्थिवादित्वादुत्तरपदलोपः। तदाह-अधिपूर्वाणामिति । अधिकरण. -संज्ञापवादोऽयम् । अधिशेते इति। अधिशेते वैकुण्ठं हरिः। अधितिष्ठति वैकुण्ठं हरिः, अध्यास्ते वैकुण्ठं हरिरित्यन्वयः । अधिस्तु सप्तम्यर्थस्याधारस्य द्योतकः । वैकुण्ठे शेते तिष्ठत्यास्ते वेत्यर्थः । अभिनिबिशश्च । आधार इति कति चानुवर्तते । अभिनीति संघातग्रहणम् । तदाह-अभिनीत्येतत्सङ्घातपूर्वस्येति । अभिनिविशते सन्मार्गमिति । मापहवानित्यर्थः । अप्रतिहतप्रवृत्तिमानिति यावत्। नन्वेवं सति पापेऽभिनिवेशः
For Private and Personal Use Only