________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४२०
सिद्धान्तकौमुदी
[ कारक
-
-
'नौवह्योन' (वा ११०९) । नाययति, वाहयति वा भार मृत्येन । 'नियन्तृकर्तृकस्य वहेरनिषेधः (वा १११०)। वाहयति रथं वाहान्सूतः । 'आदिखायोर्न ( वा ११०९)। आदयति, खादयति वा अन्नं बटुना। 'भक्षरहिंसार्थस्य ना ( वा ११११ ) भक्षयत्यन्नं बटुना। अहिंसार्थस्य किम् । भक्षयति बलीवर्दा. न्सस्यम् । 'जल्पतिप्रभृतीनामुपसङ्ख्यानम्। ( वा ११०७)। जल्पयति भाषयति
नीवोनेति । णीज् प्रापणे, वह प्रापणे इत्यनयोः ण्यन्तयोः प्रयोज्यकर्तः गति. बुद्धि' इत्युक्तं नेति वक्तव्यमित्यर्थः । नाययति वाहयति वति । भृत्यो भार नयति वहति वा, तं प्रेरयतीत्यर्थः । अन्न प्रयोज्यकर्तुभत्यस्य णिच्प्रकृत्यर्थ नयन वहनं च प्रति कर्तुः प्रयोजकव्यापार प्रति कर्मत्वे निवृत्ते णिच्प्रकृत्यर्थे प्रति कर्तृत्वस्यैव निरप. वादत्वेनावस्थानात् तृतीया बोध्या। यद्यपि नीवह्योः प्रापणमर्थः, तथापि गत्यनुकूलव्यापारार्थके प्रापणे गतेविशेषणत्वेन प्रविष्टतया गत्यर्थत्वात् प्राप्तिरिति भावः । नियन्तृकर्तृकस्य वहेरनिषेध इति । एवञ्च तत्र प्रयोज्यकर्तरुक्तस्य 'नीवह्योन' इति प्रति. षेधस्याभावे सति प्रयोज्यस्य कर्मत्वं वक्तव्यमिति फलितम् । वाहयतीति । वाहाः अश्वाः वहन्ति, तान् सूतः प्रेरयतीत्यर्थः । 'नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः । इत्यमरः । 'वहन्ति बलीवर्दाः यवान् , वाहयति बलीवान देवदत्तः इति भाष्योदाहरणात् नियन्ता पशुप्रेरक एव विवक्षितः । आदिखाधोति। अद भक्षणे, खाह भक्षणे, अनयोः प्रयोज्यकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । प्रत्यवसानार्थक. त्वात् प्राप्तिः । आदयति खादयति वेति । अत्ति खादति वा अन्नं बटुः, तं प्रेरयती. त्यर्थः । भक्षेरिति । अहिंसार्थकस्य भक्षधातोः प्रयोज्यकर्तुः कर्मत्वं नेति वक्तव्यमिः त्यर्थः । ननु 'गतिबुद्धि' इति सूत्रे अणौ कर्तुः णौ कर्मत्वमुक्तम् । भक्षधातुस्तु चुरा. दित्वात् नित्यं स्वाथिकण्यन्तः । तस्याणिकर्ता नास्त्येव । अतस्तस्य कर्मत्वनिषे. धोऽनुपपन्नः, अप्रसक्तत्वादिति चेत् , न-अत एव निषेधालिङ्गात् 'गतिबुद्धि' इति सूत्रे णिग्रहणेन हेतुमत एव विवक्षितत्वात् । एवञ्च हेतुमणिचि अनुत्पन्ने सति अण्य. न्तभक्षिधातुवाच्या क्रियां प्रति कर्तुः हेतुमण्ण्यन्तवाच्या क्रियां प्रति कर्मत्वमित्यर्थः पर्यवस्यतीति न दोषः। भक्षयत्यन्नं बटुनैति। चुरादिण्यन्तात् भक्षधातोहेंतुमणिचि पूर्वणेलोपे हेतुमण्ण्यन्तात्तिबादौ सति भक्षयतीति रूपम् । एवञ्च भक्षयत्यन्नं बटुः, खादतीत्यर्थः। तं प्रेरयतीति ण्यन्तस्यार्थः। भक्षयति बलीवन सस्यमिति । क्षेत्रे प्ररूढमलून सत्यमिह विवक्षितम् । तस्य तदानीमन्तः प्रज्ञजीवत्वात् तद्भक्षणं हिंसे. वेति भावः।
जल्पतिप्रभृतीनामिति । एतेषामणौ यः कर्ता स णो कर्म स्यादिति वक्तव्यमित्यर्थः। जल्पयति भाषयति नेति । धर्ममिति शेषः । पुत्रो धर्म जल्पति भाषते, वा, तं देवदत्तः
For Private and Personal Use Only