________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २ ]
बालमनोरमासहिता ।
अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात् । (३८) षष्ठी स्थानेयोगा १|१|४६) अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या । स्थानं च प्रसङ्गः । इत्येकत्वमविवक्षितम् । तदाह - अचां मध्य इत्यादिना । अन्तावयव इति । एतच्च आद्यन्तावित्यतः अन्तग्रहणानुवृत्या लभ्यते, आद्यन्तशब्देकदेशस्यान्तशब्दस्य तन्मात्रे स्वरितत्वप्रतिज्ञाबलेनानुवृत्तिसम्भवात् । आदिग्रहणमनुवर्त्य परादित्वाभ्युपगमे तु वारीणीति बहुवचने “सर्वनामस्थाने चासम्बुद्धौ” इति नान्ताङ्गस्य विहितो दीर्घो न सिध्येत् । अभक्तत्वे तु वहलिहः इत्यत्र " वहाभ्रे लिहः" इति खशि, 'अरुद्विपत्' इति मुमि तस्य 'मोऽनुस्वारः' इति मान्तस्य पदस्य विहितोऽनुस्वारो न स्यात् । वस्तुतस्तु-यस्य समुदायस्य मिद्विहितः तस्याचां मध्ये योऽन्त्यस्तस्मात्परः तस्य समु• दायस्य अन्तावयव इति व्याख्येयम् । अत एव 'समुदायभक्तो मित्' इति भाष्यं सङ्गच्छते । समासाश्रयविधौ मूलकारश्च वक्ष्यति 'अङ्गस्य नुम्विधानात् तद्भक्तो हि नुम्' इति
I
।
1
षष्ठी स्थानेयोगा । स्थानं प्रसङ्ग इति वक्ष्यति । तस्मिन् वाचकतया योगो यस्याः सा स्थानेयोगा, निपातनात् सप्तम्या अलुक् । स्थानेन योगो यस्या इति वा विग्रहः । निपातनादेत्वम् । इको यणचीत्यादौ षष्ठी स्थानरूपसम्बन्धार्थिकेत्यर्थः । लोके तावदेकशतं षष्ठयर्थाः आर्या यौना मौखाः स्त्रौवाश्च । शब्दस्य शब्देन त्रय एव सम्बन्धाः--आनन्तर्य सामीप्यं प्रसङ्गश्चेति । तत्रान्यतमार्थनिर्धारणार्थमिदं सूत्रमिति भाष्यम् । ततश्च "इको यणचि” इत्यादौ इक इति षष्ठया स्थानमुच्यते । तस्मिन् प्रकृत्यर्थः इक् निरूपकतयाऽन्वेति । अचि परतः इकः प्रसङ्गे यण् स्यादिति । विवरणarra त्वस्मिन् इक इति षष्ठी निरूपकतायामिति न पुनरुक्तिः शङ्कया । यथा-देवदत्तस्यावयवः पाणिरिति । "उदुपधाया गोहः" इत्यत्र तु गोह इति षष्ठी न स्थानार्थिका उपधापदसमभिव्याहारेण अवयवषष्ठीत्वनिर्धारणात् परिभाषाणां च अनियमे नियमनार्थमेव प्रवृत्तेः । तदेतदाह - श्रनिर्धारितेत्यादिना । अनिर्धारितः सम्बन्धविशेषो यस्या इति विग्रहः । तदेवमुदाहृतप्रकृतभाष्यरीत्या "इको यणचि” इत्यादौ षष्ठी स्थानरूपसम्बन्धविशेषार्थिकेति स्थितम् । मतुप्सूत्रभाष्ये तु अनन्तरादयो न षष्ठयर्था इति स्थितम् । एवं सति स्थाने इति सप्तम्यन्तपदेन योगो यस्या इति विग्रहे स्थाने इति सप्तम्यन्तस्यानुकरणम् । षष्ठीश्रुतौ स्थाने इति सप्तम्यन्तं पदमुपतिष्ठत इति फलति । स्थानेन स्थानपदार्थेन योगो यस्या इति तृतीयान्तविप्रहे तु अध्याहृतस्थानपदार्थनिरूपित सम्बन्धार्थिकेत्यर्थः । 'अस्तेर्भर्भवतीति सन्देहः स्थाने अनन्तरे समीपे इति इत्यादिप्रकृतसूत्रभाष्यस्य तु अस्तेरनन्तरे - इत्यध्याहृतानन्तरादिपदार्थनिरूपितसम्बन्धे षष्ठीत्येवार्थः । अनन्तरादीनां षष्ठ्यर्थत्वं तु नास्त्येवेति प्रौढमनोरमायां "हलअन्त्यम्” इति सूत्रे स्थितम् । तद्वयाख्याने च शब्दरत्ने शब्देन्दुशेखरे च बहुधा प्रपचि
1
For Private and Personal Use Only
३१