________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
सिद्धान्तकौमुदी
(३४) स्थानेऽन्तरतमः १।१।५० ॥ प्रसङ्गे सति सदृशतम आदेशः स्यात् ।
तम् | अनिर्धारितेति किम् । उदुपधाया इत्यत्र गोह इति षष्ठयाः स्थानार्थकत्वं मा भूत् । सति तु तत्रापि स्थानार्थकत्वे, गोहोऽन्त्यस्य उपधामात्रस्य च उत् स्यात् । ननु स्थानशब्द आधारवाची लोके प्रसिद्धः । यथा शिवस्थानं कैलासः, विष्णुस्थानं वैकुण्ठ इत्यादौ । एवं च "इको यणचि" इत्यादौ षष्ठ्याः स्थानार्थकत्वे प्रकृत्यर्थस्य तत्र निरूपकत्वेन अभेदेन वा अन्वये सति इकोऽधिकरणे यण् स्यात् इति इगधिकरणको यण् स्यादिति वा अर्थः स्यात् । तत इको निवृत्तिर्न स्यादित्यत आह-स्थानं च प्रसङ्ग इति । क्वचिदाभिचारेष्टौ दर्भाणां स्थाने शरैः प्रस्तरितव्यमित्यत्र स्थानशब्दस्य प्रसङ्ग इति दर्शनादिति भावः । एवं च तत्र यथा शरैर्दर्भा निवर्त्यन्ते, तद्वद् “इको चि” इत्यादावपि यणादिभिरिगादयो निवर्त्यन्ते । तत्र च यः प्रसरको निवर्तते स स्थानीति व्यवहियते, यो निवर्तयति स आदेश इति ।
परिभाषा
:
स्थानेऽन्तरतमः । स्थानं प्रसङ्ग इत्युक्तम् । अन्तरशब्दोऽत्र सदृशपर्यायः, अतिशयतोऽन्तरः अन्तरतमः तदाह - प्रसङ्गे सतीत्यादिना । एकस्य स्थानिन अनेकादेशप्रसङ्गे सति यः स्थानार्थगुणप्रमाणतः स्थानिना सदृशतमः स एवादेशो भवतीत्यर्थः । अत्र स्थानशब्देन ताल्वादिस्थानं विवक्षितम् । गुणशब्देन प्रयत्नः । प्रमाणशब्देन एकद्विमात्रादिपरिमाणम् । तत्र स्थानतो यथा— दध्यत्र । तालुस्थानकस्य इकारस्य तालुस्थानको यकारः । अर्थतो यथा - "सृज्वत्क्रोष्टुः” इति क्रोष्टुशब्दस्य उकारान्तस्य तृजन्त आदेशो भवन्, अर्थसाम्यात् क्रोष्टृशब्द एव सृजन्त आदेशो भवति । गुणतो यथा - वाग्धरिः । अत्र हकार : स्थानी घोषनादसम्वारमहाप्राणप्रयत्नवान् । ककारस्तु न भवति, तस्य श्वासाघोषविवाराल्पप्राणप्रयत्नकत्वात् । तथा खकारोऽपि द्वितीयो न भवति, तस्य महाप्राणप्रयत्नसाम्येऽपि श्वासाघोषविवारप्रयत्नभेदात् । तथा तृतीयोऽपि गकारो न भवति, तस्य घोषनादसम्वारप्रयत्नसाम्येऽपि अल्पप्राणप्रयत्नभेदात् । अत एव ङकारो न भवति । नन्वत्र हकारस्य खकारो द्वितीयः कुतो न स्यात्, तस्य स्थानिना हकारेण श्वासाघोषविवारप्रयत्नभेदे सत्यपि महाप्राणप्रयत्नसाम्यत्वात् । तथा तृतीयो वा गकारः कुतो न स्यात् । तस्य स्थानिना हकारेण . अल्पप्राणप्रयत्नभेदेऽपि घोषनादसम्वार प्रयत्नसाम्यसत्वात् । अतएव डकारो वा कुतो न स्यादिति चेन्न, तमग्रहणेन उक्तातिप्रसङ्ग निरासात् । अतिशयितो ह्यन्तरः, अन्तरतमः । अतिशयितं च प्रयत्नतः सादृश्यं हकारेण घकारस्यैव, उभयोरपि घोषनाद. सम्वार महाप्राणात्मकप्रयत्नचतुष्टयसाम्येन सादृश्यातिशयसत्वात् । खकारस्य महाप्राणप्रयत्नसाम्येऽपि घोषनादसम्वारप्रयत्नविरहात् । गड्योः घोषनादसम्वारप्रयत्न
For Private and Personal Use Only