________________
Shri Mahavir Jain Aradhana Kendra
प्रकरणम् १३ ]
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमासहिता ।
३२५
रूपाणि । प्रथमाद्विवचने चतुर्णा मध्ये पूजार्थानां त्रयाणां नकारस्य 'अनचि च' इति इति द्वित्वे तदभावे च षद्रूपाणि, 'अणोऽप्रगृह्यस्य' इति तु न, प्रगृह्यत्वात् । गतौ त्वेकमेव, संकलनया सप्त । जसि तु त्रयाणां अकारस्य द्वित्वे तदभावे च षड्रूपाणि, ' षण्णामेषामन्त्यस्य इकारस्य 'अणोऽप्रगृह्यस्य' इत्यनुनासिकपक्षे षट्, अनुनासि कत्वाभावपक्षे तु षट् स्थितान्येव, संकलनया जसि द्वादश । तथा च प्रथमायां विभक्तौ सप्तत्रिंशत् । एवं द्वितीयायां विभक्तावपि सप्तत्रिंशत् । तृतीयैकवचने तु चतुर्णां मध्ये पूजार्थानां त्रयाणां प्रकारद्वित्वे तदभावे च षरूपाणि, गतौ त्वेकमेव । सङ्कलनया सप्त । एषां सप्तानामन्त्यस्य आकारस्य अनुनासिकत्वपक्षे सप्त, तदभावे तु सप्त स्थितान्येव, संकलनया चतुर्दश । भ्यामि तु षण्णां मध्ये गतौ गकारस्य पूजायां ङकारस्य च द्वित्वे षट् तदभावे पट स्थितान्येव, सङ्कलनया द्वादश । एषु यकारस्य 'यणो ममः' इति द्वित्वे द्वादश, मथ इति पञ्चमी यण इति षष्ठीत्याश्रयणात् । यकारद्वित्वाभावे तु द्वादश स्थितान्येव सङ्कलनया चतुर्विंशतिः । एषु मकारस्य द्वित्वे चतुर्वि शतिः, तदभावे चतुर्विंशतिः स्थितान्येव, संकलनया म्यामि अष्टाचत्वारिंशत् । भिसि तु षण्णां मध्ये गतौ गकारस्य पूजायां ङकारस्य च द्वित्वे षट्, तदभावे षट् स्थितान्येव, संकलनया द्वादश । एषु विसर्गस्य द्वित्वे द्वादश । अयोगवाहानाम् अट्सु शर्बु चोपसंख्यातत्वेन विसर्गस्य यत्र्त्वात् । तस्य तु द्वित्वाभावे द्वादश स्थितान्येव, संकलनया मिसि चतुर्विंशतिः । तथाच तृयीयाविभक्तौ षडशीतिः । चतुथ्यैकवचने चतुर्णो मध्ये पूजार्थानां त्रयाणां अकारद्वित्वे तदभावे च षट्, गतौ त्वेकमेव सङ्कलनया इि सप्त, एकारस्य अनश्वान्नानुनासिकः । भ्यामि तु प्राग्वदेव अष्टाचत्वारिंशत् । भ्यसि तु षण्णां मध्ये गतिपूजनयोः प्रत्येकं त्रयाणां गङयोद्वित्वे षट्, तदभावे तु षट्, स्थितान्येव सङ्कलनया द्वादश । एषु यकारस्य 'यणो मयः' इति द्वित्वे द्वादश, तदभावे तु द्वादश स्थितान्येव, सङ्कलनया चतुर्विंशतिः । एषु विसर्गस्य द्वित्वे चतुविंशतिः, तदभावे तु चतुर्विंशतिः स्थितान्येव, सङ्कलनया म्यसि अष्टाचत्वारिंशत् । तथा च चतुर्थ्यां विभक्तौ त्र्यधिकं शतम् । कसौ तु पूजायां त्रयाणां रूपाणां जकार द्वित्वे तदभावे च षट्, गतौ त्वेकं स्थितमेव, सङ्कलनया सप्त । एषु विसर्गद्वित्वे सप्त, तदभावे तु सप्त स्थितान्येव, सङ्कलनया ङसौ चतुर्दश । भ्यामि भ्यसि च प्राग्वत: प्रत्येकं अष्टाचत्वारिंशत् । तथाच पञ्चम्यां विभक्तौ दशाधिकं शतम् । ङसि तु ङसि - वच्चतुर्दश । ओसि तु चतुर्णा मध्ये पूजायां त्रयाणां नकारस्य द्वित्वे तदभाषे च षट्, गतौ त्वेकं संकलनया सप्त । एषु विसर्गस्य द्वित्वे तदभावे च चतुर्दश । आमि तु चतुर्णामध्ये पूजायां त्रयाणां त्रिषु नकारस्य द्वित्वे षट्, गतौ त्वेकं, संकलनया स एषु मकारस्य द्वित्वे तदभावे च चतुर्दश । तथाच षष्ट्यां द्विचत्वारिंशत् । डौ.
"
For Private and Personal Use Only