SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ३.] बालमनोरमासहिता। ७६७ बदराण्युन्छति बादरिकः । (१५६३) रक्षति ४॥४॥३३॥ समान रक्षति सामाजिकः । (१५८४)शब्ददरं करोति ४।४।३४॥ शब्दं करोति शाब्दिकः । दादुरिकः । ( १५८५) पक्षिमत्स्यमृगान्हन्ति ४।४॥३५॥ 'स्वरूपस्य पर्या. याणां विशेषाणां च ग्रहणम्' ( वा ५२३)। 'मत्स्यर्यायेषु मीनस्यैव'। पक्षिणो हन्ति पाक्षिकः । शाकुनिकः । मायूरिकः । मात्स्यिकः । मैनिकः । शाकुलिकः । मार्गिकः । हारिणिकः । सारङ्गिकः । (१५८६) परिपन्थं च तिष्ठति ४४॥३६॥ अस्माद्वितीयान्तात्तिष्ठति हन्ति चेत्यर्थे ठक् स्यात् । पन्थानं वर्जयित्वा व्याप्य वा तिष्ठति पारिपन्थिकश्चौरः । निपातनात् पन्थादेशः। परिपन्थं हन्ति पारिपप्रयच्छतीति । इहापीति । विग्रहवाक्ये यथा उत्तमर्णः प्रधानत्वेन निर्दिश्यते, तथा समा. सेऽपि उत्तमर्ण एव ऋणदातैव तद्वितार्थः प्रधानभूत इत्यर्थः। उन्छति। तदिति द्वितीयान्तमनुवर्तते । उञ्छतीत्यर्थे द्वितीयान्ताहगित्यर्थः । भूम्यां निपतितस्य व्रीह्यादेः कणशः आदानमुन्छः । रक्षति । अस्मिन्नर्थे द्वितीयान्ता. दृगित्यर्थः । शब्ददर्दरं करोति । शब्दं करोति द१रं करोतीति विग्रहे द्वितीयान्ताहगित्यर्थः । इह शब्दविषये प्रकृतिप्रत्ययविभागपूर्वकज्ञाने करोतिर्वर्तते, व्याख्यानात् । तेनेह न-शब्दं करोति खरः। दार्दुरिक इति । . 'दार्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः। दर्दुरा चण्डिकायां स्यात्पामजाले तु दर्दुरम् ।" ___ इति विश्वः । इह यथायोग्यमन्वयः। पक्षिमत्स्यमृगान्हन्ति । अस्मिन्नर्थे पक्ष्यादि. शब्देभ्यो द्वितीयान्तेभ्यः ठगित्यर्थः । स्वरूपस्येति । पक्षिमत्स्यमृगशब्दैः तत्तत्स्व. रूपाणां तत्तत्पर्यायाणां तद्विशेषवाचिनां च ग्रहणमित्यर्थः, 'स्वं रूपम्' इति सूत्रभाष्ये तथोक्तरिति भावः । मीनस्यैवेति । मत्स्यपर्यायेषु मीनस्यैव ग्रहणम् , न त्वनिमिषादि. शब्दानामित्यर्थः । इदमपि 'स्वं रूपम्' इत्यत्र भाष्ये स्थितम् । पाक्षिक इति । स्वरू. पस्योदाहरणम् । शाकुनिक इति तु पक्षिपर्यायस्य । मायूरिक इति। पक्षिविशेषस्य । तथा मात्स्यिकः, मैनिकः, शाकुलिक इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम् । तथा मार्गिकः, हारिणिका, सारङ्गिकः इति क्रमेण स्वरूपपर्यायविशेषाणामुदाहरणम् । परिपन्थं च तिष्ठति। अस्मादिति । परिपन्थशब्दादित्यर्थः । चकारात् हन्तीत्यनु. कृष्यते । तदाह-तिष्ठति हन्ति चेति । पन्थानं वर्जयित्वेति । एतेन 'अपपरी वर्जने' इति परेः कर्मप्रवचनीयत्वे 'पञ्चम्यपापरिभिः' इति पञ्चम्याम् 'अपपरिबहिरञ्चवः पञ्चम्या' इति अव्ययीभावसमासः सूचितः । व्याप्य वेति । एतेन सर्वतःशब्दपर्यायस्य परेः परिगतः पन्था इति प्रादिसमासे परिपन्थशब्दः इति सूचितम् । अव्ययीभावः प्रादि For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy