SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १५] बालमनोरमासहिता। ३७ तत्र कीषि सिद्ध आनुगागममात्र विधीयते । इतरेषां चतुर्णामुभयम् । इन्द्राणी । हिमारण्ययोमहत्वे (वा २४७२)। महद्धिमं हिमानी। महदरण्यम् अरण्यानी । 'यवादोषे (वा२४७३)। दुष्टो यवो यवानी। 'यवनाल्लिप्याम्' (२४७४)। यव. नाना लिपिर्यवनानी। मातुलोपाध्याययोरानुग्वा । मातुलानी-मातुली । उपाध्यायानी उपाध्यायो । 'या तु स्वयमेवाण्यापिका तत्र वा ष्वाच्यः । उपाध्यायीउपाध्याया। 'आचार्यादणत्वं च' (वा २४७७ )। आचार्यस्य स्त्री आचा ही' इत्यतस्तदनुवृत्तेरिति भावः । पुंयोग एवेष्यते इति । पुंयोगादित्यनुवृत्तः, तेषां स्त्रीत्वे पुंयोगं विना अप्रवृत्तेश्चेति भावः । नन्वेवं योगादित्येव सिधे लीविधिर्व्यर्थ इत्यत आह -तत्रेति । तब इन्द्रादिषु षट्सु मातुलाचार्ययोश्च पुंयोगादित्येक डोपि सिद्ध तत्सन्नियोगेन आनुगागममानं विधीयत इत्यर्थः। इतरेषामिति । हिमा. रण्ययवयवनानां तु आनुक की चेत्युभयं विधीयते, तत्र पुंयोगस्यासम्भवादिति भावः । इन्द्राणीति । भानुकि ककार इत् , उकार उच्चारणार्थः, कित्त्वादन्तावयवः, सवर्णदीर्घः, णत्वमिति भावः। वरुणानी, भवानी, शर्वाणी, रुद्राणी, मृडानी इत्युदाहरणानि. सुगमत्वादुपेक्षितानि । दीर्घोच्चारणं विना अनुग्विधौ तु पररूपापत्ति, अकारोच्चारणस्य अल्लोपनिवृत्त्या चरितार्थत्वात् । नुग्विधौ तु अल्लोपापत्तिरि. स्यन्यत्र विस्तरः । हिमारण्योर्महत्वे । इति वार्तिकम् । महत्त्वविशिष्टे हिमे अरण्ये च वर्तमानयोरानुडीपावित्यर्थः। महद्धिमं हिमानीति । महत्त्वयोगे स्त्रीत्वमत एक ज्ञेयम् । अरण्यानीति । महदरण्यमित्यर्थः । यवादोषे । इति वार्तिकम् । आनुड्डीषाविति शेषः । दुष्टयवे वृत्तौस्त्रीत्वमत एव ज्ञेयम् । यवनाल्लिप्याम् । इत्यपि वातिकम्। लिपिरक्षरविन्यासः । तत्र लक्षणया वृत्तौ आनुङकोषावित्यर्थः । मातुलोपाध्याययोरानुग्वेति । इदमपि वातिकम् । अत्र पुंयोगादिति सम्बध्यते, हिमादिष्विवान असम्भवाभावात् । अत्र आनुगेव तु विकलप्यते, आनुगभावेऽपि पक्षे डीषु भवत्येव । मातुलान्नित्यं प्राप्ते उपाध्यायादप्राप्ते विभाषेयम् । मातुलानी मातुलोति । मातुलस्य स्त्री. त्यर्थः । उपाध्यायानी उपाध्यायीति । उपाध्यायस्य स्त्रीत्यर्थः । या तु स्वयमेवेति । इदं तु वार्तिकं तृतीयस्य तृतीये। इस' इति सूत्रे पठितम् । या स्वयमेवाध्यापयति न तूपा. ध्यायस्य स्त्री, तत्र पुंयोगाभावेऽपि केवलडीविकल्पो वाच्य इत्यर्थः । 'युगान्तरे ब्रह्मवादिन्यः स्त्रियः सन्ति। तद्विषयमिदम् , 'पुरा युगेषु नारीणां मौजीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा ॥' - इति स्मरणात् । आचार्यादणस्वं च । इत्यपि वार्तिकम् । चकारः आनुङ् For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy