________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३३६
अजाधतष्टाप ४॥४॥ अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये
-
पुष्यः तारका नक्षत्रम् इति शब्दनानात्वदर्शनात् , कुटीकुटीरादौ रेफाद्यवयवोपजनने लिङ्गभेददर्शनाच्च स्तनकेशायतिरिक्तमेव लिङ्गमित्यर्थ इति कैयटः। पुंलिङ्गः शब्द इत्यादिव्यवहारस्तु वाच्यवाचकयोरभेदोपचारादोध्यः । न च उपचयादिधर्माणां विरुद्धत्वादेकत्र समावेशायोगादेकस्य द्वित्रिलिङ्गताऽनापत्तिरिति वाच्यम् , एकैकस्मिन् वस्तुनि क्षणभेदेन त्रयाणां धर्माणामपि समावेशोपपत्तेः । उक्तं च भाको-कश्चिदपि सत्त्वादिधर्मः क्वचिन्मुहूर्तमपि नावतिष्ठते, यावदनेन वर्धितव्यमपम्वेन वा युज्यते इति ।
म सति युगपत् द्वित्रिलिङ्गस्वानापत्तिरिति वाच्यम् , नहि व्यवहारे स्वसमकालिकपदार्थसत्ता प्रयोजिका तथा सति भूतभविष्ययवहारोच्छेदापातात् । तत्र कबिदः एकलिनविधि एषा) प्रयोज्यः, कश्चितु हिलिङ्ग, कपिचत्तु त्रिलिङ्ग इत्येत लिङ्गानुशासमभावादवगन्तव्यम् । एषां चीनपुंसकाम्दानां वृद्धयादिशब्दबदस्मिन् शास्त्र संकेतश्च लिङ्गानुपासनत एव शेयः । उक्तं च भाष्ये 'अवश्य तावत् कश्चित् स्वकृतान्त आस्थेयः इति । वैयाकरणसिद्धान्त इत्यर्थः । 'कृतान्तो यमसिद्धान्तौ इत्यमरः । तत्र टिषुभादिसंज्ञावल्लघुसंज्ञामकृत्वा महासंज्ञाकरणसाम.
र्थ्यात् सति संभवे स्तबकेशवतीत्यादिलौकिकं लिङ्गमप्यत्राश्रीयते । अन्यथा 'पशुना बजेस' इत्यत्र ग्रीव्यकावपि सत्त्वापचयात्मकपुंस्त्वाचनपायात् 'आलो नास्त्रिया' इति नामावस्याविरोधात् स्त्रीपशुरप्यालभ्येत । तदेतच्चतुर्थस्य प्रथमपादे 'तथालिङ्गम्' इत्यधिकरणे अध्वरमीमांसाकुदहलवृत्ताववोचाम। त्रिविधमपि एत. लिलङ्ग जातिव्यक्तिवत् प्रातिपदिकार्थ एव । प्रत्ययार्थत्वे प्राधान्यापत्तौ अजा, खट्वा इत्यादौ स्त्रीत्वविशिष्टतादात्म्यावच्छिन्नाजादिबोधोऽनुभवसिद्धो विरुध्येत । किंच मातृदुहितृस्वसगवादिशब्देषु विनापि टाबादिप्रत्ययं स्त्रीत्वविशिष्टार्थस्य बोधात प्रातिपदिकस्य तत्र शक्त्यावश्यकत्वे टाबादीनामपि शक्तिकल्पने गौरवम् । 'रकारान्ता मातृदुहितस्वसूयातुननान्दरः, प्रावृड्विगुक्त्विषः' इत्यादिलिङ्गानुशासनसूत्राण्यपि प्रकृतिविषयाण्येव हश्यन्ते । अत एव च 'कृदिकारादक्तिनः' इत्यत्र अक्तिन इत्येतदर्थवत् । अन्यथा क्तिनैव स्त्रीत्वस्योक्तत्वात् डीपोऽप्राप्तेः तद्वैयर्थ्य स्पष्टमेव । न चैवमपि प्रकृत्यैव स्त्रीत्वस्योक्तत्वात् कथं टाबादय इति वाच्यम् , द्वावित्यादिवत् प्रकृत्युक्तस्याव्यावर्तकत्वात् । अन्यथा टाबादिविधिवैयर्थ्यात् । तथा च स्त्रीत्वमिह प्रातिपदिकस्यैव वाच्यम् । टाबादयस्तु तद्दयोतकाः। तथा च टाबादिषु सत्सु अवश्य स्त्रीत्वबोध इति नियमः, नतु टाबादिषु सत्स्वेवेति नियम इति । । अजायतष्टाप् । अजः आदिर्येषां ते अजादयः । ते चअच्चेति समाहारद्वन्द्वात् षष्ठी।
For Private and Personal Use Only