SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [ीप्रत्यय - अथ स्त्रीप्रत्ययप्रकरणम् ।१५। (४५३)स्त्रियाम्॥१३॥ अधिकारोऽयम् । समर्थानामिति यावत् ।(५५४) वक्ष्यते । तथापि अस्मादेव लिङ्गाल्लोकेऽपीत्याहुः । वस्तुतस्तु वष्टि भागुरिरिति श्लोको भाष्ये न दृश्यते । प्रत्युत 'ड्याप्रातिपदिकात्' इति सूत्रस्थभाष्यपर्यालोच. नया नास्तीत्येव युक्तम् । सत्र ह्येवमुक्तम्-आग्रहणं न कार्यम् खट्वा मालेत्यादौ अन्तवत्त्वेन प्रातिपदिकत्वादेव सिद्धम् इत्युक्त्वा, क्रुबा उष्णिहा देवविशेति हल. न्तात् टापः स्वाद्यर्थमाब्ग्रहणमस्त्विति माक्षिप्य 'क्रुश्चानालभेत् उष्णिहककुभौ देव. विशं च' इति अकारान्तादेव तत्रापि टावित्युक्त्वा 'डाबुभाभ्यामन्यतरस्याम्। इति बहुराजा, बहुराजे, बहुराजाः इत्यर्थम् आग्रहणमिति समाहितम् । तस्मात् 'आपं चैव हलन्तावाम्' इत्याश्रित्य वाचा निशा दिशेत्ययुक्तम् । अत्र निदिशोरिगुपधलक्षणे के अदन्तत्वाट्टापि निशा इत्यादिरूपसम्भवेऽपि वाचाशब्दः असाधुरेवेति शब्देन्दुशेखरे स्थितम् । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां . बालमनोरमाख्यायाम् अव्ययनिरूपणं समाप्तम् ॥ . अथ स्त्रीप्रत्यया निरूप्यन्ते । तदेवम् 'छ्याप्प्रातिपदिकात्' इत्यधिकृत्य 'स्वौजसमौदः इति सूत्रं सप्रपञ्चं निरूप्य तदुत्तरमनुकान्तान् स्वीप्रत्ययान्निरूपयितुमाहस्त्रियाम् । अधिकारोऽयमिति । 'अजायतष्टाप्' इत्याद्युत्तरसूत्रेष्वनुवृत्त्यर्थमिदं सूत्रं, न तु स्वतन्त्रविधिरित्यर्थः । कियत्पर्यन्तमयमधिकार इत्यत आह-समर्थे ति । यावदित्य. वधौ । 'समर्थानां प्रथमात्' इत्यतः प्रागित्यर्थः । अत्रेदमवधेयम् । 'स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः। उभयोरन्तरं यच्च तदभावे नपुंसकम्।। ... इति लक्षणलक्षितम् अवयवसंस्थानविशेषात्मकं लौकिक स्त्रीपुंसयोलिङ्गम् । तदभावे तयोरुभयोरभावे सति यदुभयोरन्तरं सदृशं तनपुंसकमित्यर्थः । तदिदं लौकिक लिङ्गमस्मिन् शास्त्रे नोपयुज्यते, तस्य अचेतने खट्वामालादौ बाधात् स्त्रीप्रत्ययानापतः । दारानित्यादौ 'तस्माच्छसो नः पुंसि' इति नत्वानापत्तेश्च । कितु सत्वर. जस्तमसां प्राकृतगुणानां वृद्धिः पुंस्त्वम् , अपचयः स्त्रीत्वम् , स्थितिमात्रं नपुंसक. त्वम् । अत एव उत्कर्षापकर्षसत्त्वेऽपि स्थितिमात्रमादाय सामान्ये नपुंसकम्' इति प्रवादः । उत्कर्षापकर्षसाम्यात्मकावस्थात्रयसाधारणस्थितिमात्रविवक्षायां नपुंसक भवतीति तदर्थः। ईदृशमवस्थात्रयं केवलान्वयि, अर्य पदार्थः, इयं व्यक्तिः, इर्द वस्तु, इति व्यवहारस्य सार्वत्रिकत्वात् । तच्चेदं लिङ्गमर्थनिष्ठमेव । तदुक्तं भाष्येएका शब्दान्यत्वात् दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्च' इति । एकस्मिन्नेवायें. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy