SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ सिद्धान्तकौमुदी हलन्तपुंलिश तक्-तम् । गोरक्-गोरग। 'स्को:-- (सू ५८० ) इति कलोपं प्रति कुत्वस्थासिद्धरवारसंयोगान्तलोपः । पिपक्-पिपम् । एवं विवक् । दिधक् ॥ इति षान्ताः ॥ 'पिस गती' सुष्ठ पेसतीति सुपाः, सुपिसो, सुपिसः। सुपिसा, सुपीाम् । सुपीःषु-सुपीष्षु । एवं सुतः । 'तुम खण्डने । विद्वान् , विद्वांसो, विद्वांसः। हे विद्वन् । विद्वांसम् , विद्वासौ । (४३५) वसोः सम्प्रसारणम् ६४।१३१॥ वस्वन्तस्य भस्य सम्प्रसारणं स्यात् । पूर्वरूपं, षत्वम् । विदुषः । विदुषा । ' माह-तक-तम् । गोरक्-गोरगिति । 'दु पचष् पाके' अस्मात् सनि 'सन्यडोः' इति द्वित्वम् , हलादिशेषः । 'सन्यतः इत्यभ्यासाकारस्य हत्त्वम् । 'चोः कुः इति चका. रस्य कुत्वम् । प्रत्ययावयवत्वात् सस्य षः। पिपक्ष इति रूपम् । ततःसोलोपे 'स्को" इति ककारस्य लोपमाशक्य आह-कुत्यस्यासिद्धत्वादिति । चकारस्थानिकस्येति शेषः । सति च षकारस्य संयोगान्तलोपे झल्परत्वानिवृत्त्या पूर्वप्रवृत्तककारस्य निवृत्ती पदान्तत्वात् कुत्वे जश्त्वचत्वे इत्यभिप्रेत्य आह-पिपक्-पिपगिति । पिपक्षी, पिपक्षः इत्यादि । एवं विवगिति । वक्तुमिच्छतीति विग्रहे 'वच परिभाषणे इत्यस्मात् विवक्षशब्दः पिपक्ष्शब्दवदित्यर्थः । दिधगिति । दग्धुमिच्छतीत्यर्थे 'दह भस्मीकरणे इत्य. स्मात्सनि, द्वित्वे, हलादिशेषे, अभ्यासेत्त्वे, दिदइस् इति स्थिते 'दादेर्धातोर्घः' इति हस्य घत्वे 'एकाचो बशः' इति दकारस्य धत्वे, दिधधस इति धकारस्य चत्वेन ककारे प्रत्ययावयवत्वात् सस्य षत्वे ततः किपि अतो लोपे दिधश् इति रूपम् । तस्मात् सुबुत्पत्तौ सोलोपे चर्वस्यासिद्धत्वात् 'स्कोः' इत्यभावे षकारस्य संयोगान्तलोपे खर. परत्वाभावात् पूर्वप्रवृत्तककारस्य निवृत्तौ. पदान्तत्वात् जश्त्वचत्वे इति भावः । दि. क्षो दिधक्षः इत्यादि । इति षान्ताः। ___ अथ सकारान्ता निरूप्यन्ते । सुपीरिति । 'वोरुपधायाः इति दीर्घः । एवं सुतूरिति । विद्वानिति । विद् ज्ञाने' अदादिः, लटः शत्रादेशे 'विदेः शतुर्वसुः शित्त्वात् सार्वधातु. कत्वात् शप, लुक् । 'सार्वधातुकमपित्' इति डिस्वान्न लघूपधगुणः । कृदन्तत्वात् प्रातिपदिकत्वं विद्वस्शब्दः । तस्मात् सुः, उगित्वान्नुम् , 'सान्तमहतः' इति दीर्घः, सुलोपः, सस्य संयोगान्तलोपः, तस्यासिद्धत्वान्नलोपो नेति भावः । सान्तत्वामा. वात् । 'वसुन सु' इति दत्वं न । विद्वांसाविति । सुटि नुमि कृते 'सान्तमहतः' इति दीर्घः, 'नश्च' इत्यनुस्वार इति भावः । शसादावचि विशेषमाह-वसोः सम्प्रसारणम् । प्रत्ययग्रहणपरिभाषया वसोरिति तदन्तग्रहणम् । भस्येत्यधिकृतम् । तदाह-वस्व. तत्येति । पूर्वति । शसि वकारस्य उत्वे विदु अस् इति स्थिते, सम्प्रसारणाच्या इति पूर्वरूपे, विदुख इति स्थिते, प्रत्ययावयवत्वात् सस्य पत्वमित्यर्थः । 'पत्वतुकोरसिद्धर For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy