SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १८] बालमनोरमासहिता। ५४६ m 'द्विगो गनपत्ये' (सू १०८० ) इति ठजो लुक् । द्वयह्नः । स्त्रियामदन्तत्वाट्टाप् । यह्ना । यह्नप्रियः । अत्यह्नः । (७६२) क्षुभ्नादिषु च ४३६॥ एषु णत्वं न स्यात् । दीर्घाही प्रावृट् । एवं चैतदर्थमह्न इत्यदन्तानुकरणक्लेशो न कर्तव्यः । 'प्रातिपदिकान्त-- (सू १०५५) इति णत्ववारणाय क्षुभ्नादिषु पाठस्यावश्यकत्वात्। भदन्तादिति तपरकरणान्नेह । परागतमहः पराह्नः। न सङ्ख्यादेः समाहारे • इति टच , अह्लादेशः, णत्वं 'रात्राहाहा' इति पुंस्त्वम् । पूर्वाह्न इति । समासादि स. डिवत् । संख्याताह इति । संख्यातमहरिति विग्रहः । विशेषणसमासः, टच अह्नादेशः । निमित्ताभावान णत्वम् । पुण्यपूर्वस्य त्वग्रे वक्ष्यते । संख्यापूर्वस्य उदाहरति-- द्वयोरहोरित्यादि । यह इति । तद्धितार्थे द्विगुः । टच । ततो भवाथें ठञ् , तस्य लुक , अकादेशः । प्रसादाह-स्त्रियामिति । द्वयहेति । द्वयोरहोर्भवेत्यर्थः । ठञ् लुक् च पूर्व. वत् । 'अपरिमाणविस्त' इति न डीप । ठनिमित्तस्तु डीप नेत्यपरिमाणविस्तेत्य. ब्रोक्तम् । टचष्टित्त्वेऽप्युपसर्जनस्वात् ठिड्ढ' इति न डीप । वस्तुतस्तु स्त्रीत्वमेवात्र नास्ति । 'शवाहाहाः पुंसि' इत्युक्तेरिति शब्देन्दुशेखरे प्रपञ्चितम् । सङ्ख्यापूर्वस्योदाहरणान्तरमाह-यह्नप्रिय इति । द्वे अहनी प्रिये यस्येति विग्रहः। तद्धितार्थेत्युत्तरपदे द्विगुः । टच् अलादेश इति भावः। अव्ययपूर्वस्योदाहरति-अत्यह इति । अहरतिक्रान्त इति विग्रहः । अत्यादय इति समासः । टच् अह्नादेश इति भावः । तुम्नादिषु च । रषाभ्यामित्यतो ण इति 'न भाभूपूकमि' इत्यतो नेति चानुव. तते । तदाह-एग्विति । दीर्घाली प्रावृडिति । वर्षौ प्रावृदशब्दः स्त्रीलिङ्गः। 'स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः' इत्यमरः । दीर्घाण्यहानि यस्मिन्निति बहुव्रीहिः । 'अन उपधालोपिनोऽन्यतरस्याम्' इति की 'अल्लोपोऽन: इत्युपधालोपः । 'अहोऽदन्तात्' इति णत्वं तु क्षुम्नादित्वान्नेति भावः । ननु क्षुम्नादिषु दीर्घाहीत्यस्य पाठो व्यर्थः 'अहोऽदन्तात्' इत्यत्र हि अह्न इत्यदन्तात् षष्टयर्थे प्रथमा । अदन्तपूर्वपदस्था. निमित्तात् परस्य अहशब्दस्य नस्य णत्वं स्यादिति तदर्थः । दीर्घाहीत्यत्र च अहा. देशस्याप्रसक्त्या अदन्तत्वाभावादेव णत्वस्याप्राप्तौ किं तन्निवृत्त्ययन क्षुम्नादिपाठे. नेत्यत आह-एवञ्चेति । एवं सति दीर्घाहीशब्दस्य क्षुम्नादिपाठे सति, एतदर्थम् 'अहोऽदन्तात्' इति णत्वनिवृत्यर्थम् , अह्न इत्यस्य अदन्तत्वानुसरणं षष्ट्यर्थे व्यत्ययेन प्रथमानुसरणं क्लेशावह न कर्तव्यमित्यर्थः । क्षुम्नादिपाठादेव णत्वनिवृत्तिसिद्धे. रिति भावः । ननु दीर्घाहीत्यस्य णत्वाभावाय किं क्षुम्नादिपाठोऽभ्युपगम्यताम् उत अह इत्यस्य अदन्तत्वमित्यत्र विनिगमनाविरह इत्यत आह-प्रातिपदिकान्तेति । अथ 'अहोऽदन्तात्' इत्यत्र पूर्वपदविशेषणे अदन्तादिति तपरत्वस्य प्रयोजनमाहभदन्तादिति । पराह्न इति । 'प्रादयो गताद्यथें' इति समासः, टच , अव्ययात्परत्वाद. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy