________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३७ ]
बालमनोरमासहिता ।
मृशं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्ता । ( १८१३ ) समां समां विजायते ५|२|१२|| यलोपोऽवशिष्टविभकेरलक्च पूर्वपदे निपास्यते । समांसमीना गौः । ' समांसमीना सा यैव प्रतिवर्ष प्रसूयते' इत्यमरः । 'खप्रत्ययानुत्पत्तौ यलोपो वा वक्तव्यः' (वा ३१०० ) । समां समां विजायते । समाय समाय वा । (१८१४) अद्यश्वीनावष्टब्धे ५|२| १३ ॥ अथ श्वो वा विजायते अद्यश्वीना वडवा । आसन्न प्रसवेत्यर्थः । केचित्तु विजायत इति नानुवर्तयन्ति ।
८४६
भृशवाची । तदाह-भृशं गन्तेति । अनुकाममिति । कामः इच्छा । तामनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्ययीभावः । समां समाम् । विपूर्वी जनिर्गर्भविमोचने वर्तते । विजायते गर्भम् विमुचतीत्यर्थः । धात्वर्थेनोपसङ्ग्रहादकर्मकः । अतो न कर्मणि द्वितीया । गर्भविमोचनेन कृत्स्नायाः समाया अव्यापनादत्यन्तसंयोग लक्षणा द्वितीयापि न भवति । किन्तु सप्तम्येव । तत्र सप्तम्यन्तस्य समायामित्यस्य 'नित्यवीप्सयो:' इति द्विर्वचने समायां समायामिति भवितव्यम् । तत्र पदद्वयमपि यकारलोपसहितं निर्दिश्यते - समां समामिति । समायां समायामित्यर्थः । एवं च समायां समायां विजायत इत्यर्थे सप्तम्यन्तद्वयसमुदायात् विजायत इत्यर्थे खः स्यादिति फलितम् । ननु सप्तम्यन्तद्वयसमुदायात् खप्रत्ययोत्वसौ तदन्तस्य समुदायस्य प्रातिपदिकत्वात् तदवयवयोः सप्तम्योलुकि समासमीन इति स्यात् । इष्यते तु समांसमीनेति । तत्राह - लोप इति । पूर्वपदे विभक्ते तदवयवस्य यकारस्य लोपः । अवशिष्टस्य विभक्त्यंशस्य अलुक्च निपात्यत इत्यर्थः । भाष्ये तु 'यलोपनिपातनादवशिष्टविभक्त्यंशस्य न लुक् इत्युक्तम् । ननु सर्मा समामिति निर्देशात् उत्तरपदेऽपि यकारलोपः अवशिष्टविभक्त्यंशल्य अलुक् च स्यादित्यत आह- पूर्वपदे इति । 'पूर्वपदस्य यलोपवचनम्' इति वार्तिकादिति भावः । खप्रत्ययानुत्पत्ताविति । पदद्वयेऽपीति शेषः । इह विभाषया कदाचित खप्रत्ययाभावे सति समाय समायां विजायत इति वाक्यदशायां सप्तम्यन्तद्वये यकारलोपो वा वक्तव्य इत्यर्थः । तत्र पदद्वयेऽपि निपातनादेव यकारलोपः सिद्धः सूत्रे उभयत्रापि तथोच्चारणात् । विकल्प एव तु यलोपस्य वाक्यदशायां वाचनिक इति बोध्यम् । एतत्सर्व भाष्ये स्पष्टम् ।
1
अधरवीनाऽवष्टब्धे । अद्यश्वीनेत्यविभक्तिको निर्देशः । अवष्टब्धम् आसन्नम् 'अवाचालम्बनाविदूर्ययोः' इत्याविदूयें स्तम्भे षत्वविधानात् । अद्य श्वो वा विजायत इत्यर्थे अद्य श्वस् इति समुदायात्खः स्यादासन्नत्वे गम्ये इत्यर्थः । अद्यश्वीना वडवेति ॥ अथ वा श्वो वेति वाथें निपातनात्समासः । खे सति 'अव्ययानां भमात्रे' इति टिलोपः । सूत्रे अद्यश्वीनेति टाबन्तनिर्देशे तु अद्यश्वीनो गोसमूहः, अद्यश्वीनं गोमण्डलमिति
५४ बा०
For Private and Personal Use Only