________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१०४
सिद्धान्तकौमुदी
विसर्गसन्धि
इसुसोर्विसर्गस्य षः स्याद्वा कुप्वोः । सर्पिष्करोति - सर्पिः करोति । धनुष्करोतिधनुः करोति । सामर्थ्यमिह व्यपेक्षा | 'सामर्थ्ये' किम् । तिष्ठतु सर्पिः पिब त्वमुदकम् । (१५) नित्यं समासेऽनुत्तरपदस्थस्य = | ३ | ४५ ॥ इसुसोर्विसर्गस्यानुत्तरपदस्थस्य समासे नित्यं षः स्यात्कुप्वोः परयोः । सर्पिष्कुण्डिका । 'अनुत्तरपदस्थस्य' इति किम् । परमसर्पिः कुण्डिका । कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे
मित्यादौ षत्ववारणाय प्रत्ययावयवभिन्नस्येत्येव व्याख्यातुमुचितत्वात् । चतुश्शब्दस्तु अव्युत्पन्न एव । अतः प्रत्ययावयवभिन्नस्येति पर्युदासस्तत्र न भवति, 'चतुष्पात्रयो ढञ्' इत्यादिनिर्देशबलेन चतुरशब्दे अभ्युत्पत्तिपक्षस्यैवाङ्गीकार्यत्वात् । द्विनामा त्रिनामा च कश्चित् । द्विः करोति त्रिः करोति । अत्रापि न पत्वम्, कृत्वोऽथें अवृत्तेः ।
।
इसुसो । इणष्ष इत्यतः ष इति, कुष्वोरिति, विसर्जनीयस्येति, अन्यतरस्यामिति चानुवर्तते । तदाह - सुसोर्विसर्गस्येति । सर्पिष्करोतीति । व्युत्पत्तिपक्षे अत्र विसर्गस्य प्रत्ययावयवत्वादिदुदुपधस्येत्यप्राप्तौ विभाषावचनम् । पत्वाभावपक्षे कुप्वोरिति जिह्वामूलीयविसर्गो धनुष्करोतीत्यत्राप्येवम् । ननु एकार्थीभावलक्षणं सामर्थ्यं वृत्तावेव, नतु वाक्ये, इति समर्थसूत्रे भाष्ये कैयटादिषु च स्पष्टम् । एवंच सर्पिष्करोतीति धनुष्करोतीति वाक्ये कथमयं षत्वविकल्प इत्यत आह-सामर्थ्यमिह व्यपैक्षेति । विशिष्टा अपेक्षा व्यपेक्षा पदानामाकाङ्क्षायोग्यतासन्निधिवशात् यः परस्परान्वयः सा व्यपेक्षा । इदं तु सामर्थ्य वाक्येषु विद्यते । यथा राज्ञः पुरुषोऽवश्व राशो देवदत्तस्य च पुरुष इत्यादौ । एवं च सर्पिष्करोतीत्यादौ एतादृशं व्यपेक्षालक्षणं सामर्थ्यमस्तीति भवत्युदाहरणम् । व्यपेक्षा लक्षणमेवात्र सामर्थ्यमाश्रित्य सर्पिष्करोतीति भाष्ये उदाहृतत्वादिति भावः । नच पेचुः काष्ठैः, सख्युः कामः, कविभिः कृतमित्यादौ षत्वं शक्यम्, अत्र प्रातिपदिकावयवयोरेव इसुसोर्ग्रहणात् नित्यं समास इत्युत्तरसूत्रोदाहरणे तयोरेव सम्भवेनार्थाधिकाराश्रयणात् साहचर्याच्च । तिष्ठत्विति । तिष्ठतु सर्पिरित्येकं वाक्यम् । पिबत्वमुदकमित्यन्यत् । तत्र सर्पिरित्यस्य पिब इत्यत्रान्वयाभावान्न सामर्थ्यम् । अतो नायमत्र षत्वविकल्पः । नापि इदुदुपधस्येति नित्यं षत्वम्, प्रत्ययावयवत्वात् । अतः एव प्रत्ययभिन्नस्य विसर्गस्येति व्याख्यानं नाश्रितम् । तथा सति तिष्ठतु सर्पिः, पित्र त्वमुदकमित्यत्र विसर्गस्य प्रत्ययैकदेशस्य प्रत्ययभिन्नतया इदुदुपधस्येति षत्वापतेः । नित्यं समासे । इसुसोरित्यनुवर्तते, कुबोरिति, विसर्जनीयस्येति च । तदाहइसुसोरित्यादिना । सर्पिष्कुण्डिकेति । सर्पिषः कुण्डिकेति विग्रहः । समासे व्यपेक्षा लक्षण-सामर्थ्यस्यापि सत्त्वात् 'इसुसोः सामध्ये' इति षत्वविकल्पे प्राप्ते वचनमिदम् । परमसर्पिःकुण्डिकेति । अत्र विसर्गस्य उत्तरपदस्थत्वान्न षत्वम् । इदुदुपधस्येति षत्वं तु.
1
For Private and Personal Use Only