________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६६२
सिद्धान्तकौमुदी
[ समासाश्रयविधि
असिपत्रवनम् । वनस्याप्रे अग्रेवणम् । राजन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः । (१०४०) वले ६|३|११८ ॥ वलप्रत्यये परे दीर्घः स्यात्सञ्ज्ञायाम् । कृषीवलः । (२०४६) मतौ बह्वचोऽनजिरादीनाम् ६|३|११४॥ अमरावती । अनजिरादीनाम् किम् | अजिरवती । बह्वचः किम् । व्रीहिमती | सञ्ज्ञायाम् इत्येव । नेह । वलयवती । ( १०४२) शरादीनां च ६|३|१२०॥ शरावती । (२०४३) इको वहेऽपीलोः ६|३| १२१॥ इगन्तस्य दीर्घः स्याद्वदे । ऋषीवहम् । कपीवहम् । इकः किम् । पिण्डचम् | अपीलोः किम् | पीलुवहम् । 'अपील्वादीनामिति वाच्यम्' ( वा ४००५ ) दारुवम् । (२०५४) उपसर्गस्य घञ्यमनुष्ये बहुलम् ||३ | १२२॥ उपसर्गस्य बहुलं दीर्घः स्यादुद्घञन्ते परे, न तु मनुष्ये । परीपाकः - परिपाकः । विध्यर्थ एव, न तु नियमार्थः । अग्रेवणशब्दस्यासञ्ज्ञात्वादिति भावः । न च पुरगा. वणशब्दे गकारव्यवधानात् 'पूर्वपदात्सञ्ज्ञायाम्' इत्यस्य प्राप्तयसम्भवात् अत्र अपू
त्वविध्यर्थमेव पुरगाग्रहणमिति वाच्यम् अग इति हि पञ्चमी । गकारान्तात्पूपदात्परस्य णत्वं नेति लभ्यते । पुरगाशब्दस्त्वयम् आकारान्त एव न तु गकारान्त इति, तत्र अग इति निषेधाप्राप्तया पूर्वपदात्सञ्ज्ञायाम्' इत्येव सिद्धे, पुरगाग्रहणमपि नियमार्थमेवेति भावः । पुरगावणमित्यादयः नरकविशेषाणां सज्ञाः । असिपत्रवनमिति । नरकविशेषोऽयम् । अत्र सञ्ज्ञात्वेऽपि 'पूर्वपदात्सञ्ज्ञायाम्' इति णत्वं न भवति । एभ्य एवेति नियमादिति भावः । श्रग्रेवणमिति । वनशब्दस्य षष्टयन्तस्य अग्रेशब्देन सह षष्ठीसमास इति भावः । ननु तर्हि 'सुपो धातु' इति सप्तम्या अपि 'लुकू स्यादित्यत आह- राजदन्तादिष्विति । अनेन वनशब्दस्य परनिपातोऽपि सूचितः । ननु सप्तम्यर्थं प्राधान्यात्सप्तमी स्यादित्यत आह- प्रातिपदिकेति । सप्तम्यर्थस्य प्रातिपदिकेऽन्तर्भावादिति भावः । किंशुलुकादीनामुदाहरणमाह- किंशुलुकागिरिरिति । अञ्जनागिरिरित्यप्युदाहार्यम् ।
वले । कृषीवल इति । कृषिरस्यास्तीति विग्रहे 'रजः कृष्यासुति' इत्यादिना वलच् । मतौ । मतुप्प्रत्यये परे बहुचो दीर्घः स्यात्सञ्ज्ञायां, न त्वजिरादीनामित्यर्थः । श्रमरावतीति । इन्द्रनगर्याः सञ्ज्ञेयम् । अमराः अस्यां सन्तीति विग्रहः । 'मादुपधायाश्च' 'इति 'सज्ञायां' इति वा मस्य वः । श्रजिरवतीति । नदीविशेषस्य सज्ञेयम् । वलयवतीति । अनजिरादित्त्रेऽप्यसञ्ज्ञात्वान्न दीर्घ इति भावः । शरादीनां च । मतौ दीर्घः सज्ञायामिति शेषः | अबह्वच्कत्वात्पूर्वेण न प्राप्तिः । शरावतीति । शराः अस्यां सन्ती. ति विग्रह: । नदीविशेषस्य नाम । इको वहेऽपीलोः । अपीलोरिति च्छेदः । इगन्तस्येति ।
For Private and Personal Use Only