SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३१४ www.kobatirth.org सिद्धान्तकौमुदी अमुयोः, अमूषु ॥ इति सान्ताः ॥ Acharya Shri Kailassagarsuri Gyanmandir इति हलन्तस्त्रीलिङ्गप्रकरणम् ॥ [ हलन्तनपुंसकलिङ्ग अथ हलन्तनपुंसकलिङ्गप्रकरणम् ॥ १३ ॥ , स्वमोर्लुक् । दत्वम् । स्वनडुत् - स्वनडुद् स्वनडुही । 'चतुरनडुहो: -' (सू ३३१ ) इत्याम् । स्वनड्वाहि । पुनस्तद्वत् । शेषं पुंवत् ॥ इति हान्ताः ॥ 'दिव उत्' (सू ३३७) अहर्विमलद्यु । अन्तर्वर्तिनी विभक्तिमाश्रिस्य पूर्वपदस्येवोतर खण्ड अत्वपररूपटाप्लु, डेरामि, स्याद्स्वौ, मुत्वमिति भावः । अमूष्विति । सुपि अत्वपररू. पटासु, ऊत्वमत्ये, षत्वमिति भावः । इति सान्ताः ॥ इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां हलन्तस्त्रीलिङ्गप्रकरणं समाप्तम् ॥ अथ हलन्तनपुंसकलिङ्गे हकारान्ता निरूप्यन्ते । सु शोभनाः अनड्वाह: यस्य कुलस्येति बहुव्रीहौ स्वनडुह शब्दात् नपुंसकलिङ्गात् सुदुत्पत्तिः । ननु तत्र सौ परतः 'चतुरनदु होः ' इत्याम्, 'अम् संबुद्धौ' इत्यम्, 'सावनडुहः' इति नुम् च स्यात् । हल्कादिना सुलोपेsपि प्रत्ययलक्षणसत्त्वादित्यत आह-स्वमोलंगिति । परत्वात् हल्डयादिलोपं बाधित्वा 'स्वमोर्नपुंसकात्' इति लुक् । ततश्च लुका लुप्तत्वेन प्रत्ययलक्षणाभावादामादि न भवतीति भावः । दत्वमिति । 'वसुसु' इत्यनेनेति शेषः । दत्वविधेः पदाधिकारस्थत्वेन तदन्तेऽपि प्रवृत्तेरिति भावः । नच तत्रापि 'न लुमता' इति निषेधः शङ्कयः । दत्वस्य सुबन्तत्वरूपपदत्वनिमित्तकतया अङ्गकार्यत्वाभावादित्याहुः । स्वनडुदिति । दत्वे चर्चविकल्पः । 'उरःप्रभृतिभ्यः कप्' इति तु न शक्यम्, तत्र गणे अनड्वानित्येकवचनस्यैव पाठादिति बहुव्रीह्यधिकारे मूल एव वक्ष्यते । स्वनडुही इति । 'नपुंसकाच्च' इत्यौङः शीभावः । स्वनड्वांहीति । 'जशशसोः शिः' इति शिभावे, तस्य सर्वनामस्थानत्वात् 'चतुरनडुहो:' इत्यामि, 'नपुंसकस्य झलचः' इति नुमि 'नश्च' इत्यनुस्वार इति भावः । अत्र यद्वक्तव्यं तत्पुंल्लिङ्गनिरूपणे उक्तम् । इति हान्ताः । I अथ वकारान्ता निरूप्यन्ते । विमला द्यौ आकाशं यस्य अह्नः इति बहुव्रीहौ, सुब्लुकि, विमलदिवशब्दात् सोलुक् । एतावत् सिद्धवत्कृत्य आह - दिव उदिति । अहर्विमलघु इति । वस्य उत्वे इकारस्य यणिति भावः । अहर्ग्रहणं नपुंसकत्वसूचनार्थम् । ननु विमदिव और इति स्थिते 'नपुंसकाच्च' इति शीभावे विमलदिवी इति रूपं वक्ष्यति । For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy