________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३]
बालमनोरमासहिता ।
स्यापि पदसंज्ञायां प्राप्तायाम् 'उत्तरपदत्वे चापदादिविषो प्रतिषेधः ( वा ४८०) इति प्रत्ययलक्षणं न । विमलदिवी, विमलदिवि । 'अपदादिविधौ किम् । दधिः सेचौ । इह षत्वनिषेधे कर्तव्ये पदत्वमस्त्येव । चकारस्य कुत्वे तु न ॥इति वान्ताः॥
तयुक्तम् , 'दिव उत्' इत्युत्त्वप्रसङ्गात् । नच विमलदिवी इति समुदायस्यैव सुबन्त. तया पदत्वान्न वकारस्य दिवशब्दरूपपदान्तत्वमिति वाच्यम् 'सुपो धातु' इति लुप्तां दिवशब्दोत्तरां विभक्तिं प्रत्ययलक्षणेनाश्रित्य दिव् इत्यस्य पदत्वात् । नच लुका लुसत्वात् न प्रत्ययलक्षणमिति वाच्यम् , पदसंज्ञायाः सुबन्तधर्मतया अङ्गधर्मत्वाभाबेन तत्र 'न लुमता' इति निषेधाप्रवृत्तः। अन्यथा राज्ञः पुरुषः राजपुरुषः इत्यादौ पूर्वमागे नलोपादिकं न स्यादित्याशय आह-अन्तर्वतिनीमित्यादि । उत्तरपदत्वे चेति । समासे उत्तरखण्डस्य पदसंज्ञायां कर्तव्यायाम् अन्तर्वतिविभक्तिलोपे प्रत्ययलक्षणप्रतिषेधो वक्तव्यः पदादिविधि वर्जयित्वा इत्यर्थः। वार्तिकमेतत् । विमलदिवो इति ।
औजि रूपम् । विमलदिवि इति । शसि सति जाशसोः शिः' इति शिभावे रूपसिद्धिः । अझलन्तत्वान्न नुम् । ___ दधिसेचाविति । सिबतेः क्विप् । दध्नः सेवौ दधिसेचौ । समासे पूर्वोत्तरपदावय. वसुपोलुंकि समासात् पुनः सुबुत्पत्तिरिति स्थितिः। तत्र उत्तरखण्डादुत्तरां विभक्ति लुसां प्रत्ययलक्षणेनाश्रित्य सेच् इत्यस्य पदत्वेन तत्सकारस्य पदादितया 'सात्पदायो' इति षत्वनिषेध इष्टः । 'उत्तरपदस्थे प्रत्ययलक्षणप्रतिषेधः' इत्येतावत्येवोक्ते तु सेच इत्युत्तरंखण्डस्य पदसंज्ञायां कर्तव्यायां प्रत्ययलक्षणप्रतिषेधः स्यात् । तथाच सेच इत्यस्य सुबन्तत्वाभावेन अपदतया तत्सकारस्य पदादित्वाभावेन षत्वनिषेधो न स्यात् । अतः अपदादिविधावित्युक्तम् । षत्वनिषेधस्य पदादिविधितया तस्मिन् कर्तव्ये प्रत्ययलक्षणमाश्रित्य सेच् इत्यस्य पदत्वात् तत्सकारस्य 'सात्पदायोः' इति षत्वनिषेधो निर्बाधः । ननु सेच् इत्युत्तरखण्डस्य पदत्वे चकारस्य कुत्वं स्यादित्यत आहचकारस्य कुत्वे तु नैति । कुत्वे कर्तव्ये तु सेच् इत्यस्य पदत्वं नास्त्येव, कुत्वस्य पदान्त. विधित्वेन पदादिविधिभिन्नतया तस्मिन् कर्तव्ये प्रत्ययलक्षणप्रतिषेधसत्त्वेन पदत्वा. भावादिति भावः । ननु दधि सिनत इति सोपपदाद्विचि उपपदसमासे षत्वं दुर्वारम्, 'गतिकारकोपपदानां कृभिः सह समासवचनं प्राक् सुबुत्पत्तेः' इति वक्ष्यमाणत्वेन सेच् इत्यस्य अन्तर्वतिसुबभावेन अपदान्ततया 'सात्पदायोः' इति निषेधस्य तत्राप्रवृत्ते. रिति चेत् , अत्र सोपपदात् सिचेः विचः अनभिधानमिति भाव इति कैयटः समाहितवान् । पदात् आदिः पदादिरिति पक्षे तु उपपदसमासेऽपि षत्वं सुपरिहरम् । नचैवमपि परमश्चासौ दण्डी च परमदण्डी सः प्रियः सः परमदण्डिप्रियः इत्यत्र अवान्तरतत्पुरुषस्य उत्तरखण्डे नलोपानुपपत्तिः 'उत्तरपदत्वे च इति प्रत्ययलक्षणप्रतिषेधेन
For Private and Personal Use Only