________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १]
___ बालमनोरमासहिता।
दीर्घादीनामिव हकारादीनामपि ग्रहणकशास्त्रबलादच्त्वं स्यात् । तथा हि(१४) अणुदित्सवर्णस्य चाप्रत्ययः १३१६६। प्रतीयते विधीयते इतिप्रत्ययः; अविधीयमानोऽणुदिच्च सवर्णस्य सञ्ज्ञा स्यात् । अत्राण परेण णकारेण । कु चु टु तु पु एते उदितः। तदेवम् । अ इत्यष्टादशानां सज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः।
-
याभ्युपगमे, दीर्घादीनामिव हकारादीनामप्यत्वं स्यादित्यन्वयः। ननु वर्णसमाम्नाये हकारादीनां अकारचकारमध्यगत्वाभावात् कथमच्त्वमित्यत आह-ग्रहणकशास्त्रबलादिति । गृहन्त्यकारादयः स्वसवर्णान् येन तत् ग्रहणम् । करणे ल्युट , स्वार्थे कः। अणुदित्सूत्रादित्यर्थः। यद्यप्यच्छब्दवाच्यत्वं वार्णसमाम्नायिकानामेव वर्णानाम् , तथापि "इको यणचि" इत्यादौ अच्छब्देन अकारादिषूपस्थितेषुतैः अणुदि
सूत्रबलेन स्वस्वसवर्णानामाकारादीनामुपस्थितिरस्ति । ततश्चात्राच्पदवाच्याकारादिवाच्यत्वादाकारादीनामिव हकारादीनामपि लक्षणया अच्छब्देन ग्रहणं स्यादित्यर्थः । न च "इको यणचि" इत्यादौ शक्यार्थमादायैवोपपत्तेर्न लक्षणासम्भवः । अणुदित्सत्रं तु "अस्य च्चो" इत्यादो सावकाशमिति वाच्यम् । “ल्वादिभ्य' इत्यादि. निर्देशबलेन प्रत्याहाराणां स्ववाच्यवाच्येषु लक्षणावश्यम्भावात् । तथा च अच्त्वं स्यादित्यस्य अच्पदबोध्यत्वं स्यादित्यर्थः।
किं तद्ग्रहणकशास्त्रमित्याकालायां तदुपपादनं प्रतिजानीते-तथा हीति । अणुदित्सवर्णस्य । प्रत्ययशब्दस्य अणादिप्रत्ययपरत्वे 'त्यदादीनाम:' 'इदम इश्' इत्यादीनां पर्युदासो न स्यादित्यतो व्याचष्टे-प्रतीयत इति । उत् इत् यस्य सः उदित् कु चु टु तु पु इत्यादिः। चकारात् "स्वं रूपम्" इत्यतः स्वमित्यनुवर्तते । तच्च षष्ठ्यन्ततया विपरिणम्यते । तदाह-प्रविधीयमान इत्यादिना। अणिति पूर्वेण परेण वा प्रत्याहार इति संशये निर्धारयति-अत्रेति । अस्मिन्नेव सूत्रे अण परेण(१) णकारेण । इतरत्र तु "अणोऽप्रगृह्यस्य" इत्यादौ पूर्वेणैवेत्यर्थः । अत्र च आचार्यपारम्पर्योपदेशरूपं व्याख्यानमेव शरणम् । एवं चाणुदित्सूत्रेणानेन अकारादिभिश्चतुर्भिर्दीर्घप्लुतानामिव सवर्णभूतहकारादीनामपि ग्रहणादच्त्वात्तेषु परेषु इका. रस्य यणादिकं स्यादिति नाज्झलाविति प्रतिषेध आवश्यक इति स्थितम् । अणुदित्सूत्रस्य फलमाह-तदेवमिति । तत् अणुदित्सूत्रं, एवं वक्ष्यमाणप्रकारेण फलती. त्यर्थः । त्रिंशत इति । अलवर्णयोमिथः सवर्णतया प्रकारेण स्वाष्टादशभेदानां
(१) उक्तञ्च--परेणैवेण ग्रहाः सर्वे पूर्वेणैवाणग्रहा मताः।
ऋतेऽणुदित्सवर्णस्येत्येतदेकं परेण तु ॥ इति ।
For Private and Personal Use Only