SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १२] बालमनोरमासहिता । - (सू ३४३)। इयम् । त्यदायत्वं, टाप् 'दश्च (सू ३४५) इति मः । इमे, इमाः । इमाम् , इमे, इमाः । अनया। 'हलि लोपः' (सू ३४७)। आभ्याम् । आभ्याम् । आभ्याम् । आभिः । अस्यै । अस्याः, अनयोः, आसाम् । अस्याम् , अनयोः, आसु । अन्वादेशे तु एनाम् , एने, एनाः । एनया। एनयोः । एनयोः ॥ इति मान्ताः ॥ 'ऋत्विग्-' (सू ३७३) आदिना सृजेः क्विन् अमागमश्च निपातितः । तते । तदाह-इदमो दस्येति । पुंसि तु नेदं प्रवर्तते, 'इदोऽय् पुसि' इति विशिष्य विधेः । नापि क्लीवे, तस्य सोः लुका लुतत्वात् । ततश्च परिशेषात् स्त्रियामेवेदम् । इयमिति । इदम् स् इति स्थिते, दकारस्य यत्वे, इयम् स् इति स्थिते, त्यदायत्वं बाधित्वा 'इदमो मः' इति मकारस्य मकारे कृते, हल्ल्यादिना सुलोप इति भावः । इदम् औ इति स्थिते प्रक्रियां दर्शयतित्यदायत्वमिति । त्यदायत्वे सति, पररूपे, अदन्तत्वात् टापि 'द इति दकारस्य' मत्वे, इमा औ इति स्थिते, औड आप इति शीमावे, आद्गुणे इमे इति रूपम् । इमा इति । जति स्यदायत्वं, पररूपम् , टाप् , 'दाच' इति मः, पूर्वसवर्णदीर्घः इति भावः । अत्र विभक्तो सत्यां त्वदायत्वं, पररूपं, टाप् च सर्वत्र भवन्तीति बोध्यम् । इमाः इत्यत्र इमा अस् इति स्थिते पूर्वसवर्णदीर्घः। 'जस: शी' इति तु न । टापि कृते अदन्तात् परत्वामावात् । इमामिति । अत्वपररूपटाम्मत्वेषु कृतेषु अमि पूर्वः' इति भावः । इमे इति । भौटि औवत् । इमाः इति । अत्वपररूपटाम्मत्वेषु पूर्वसवर्णदीर्घः । स्त्रीत्वान्नात्वाभाव इति भावः । अनये. ति । इदम् आ इति स्थिते, अत्वं, पररूपम् , टाप् , 'अनाप्यकः' इति इद् इत्यस्य अन् आदेशः। अन् आ आ इति स्थिते, 'आजि चापः इत्येत्त्वे, अयादेशः इति भावः। टाप्रमृत्यजादौ सर्वत्र अन् आदेश इति बोध्यम् । हलि लोपः इति । भ्यामादौ हलि इद् इत्यस्य लोप इत्यर्थः । आभ्यामिति । इदम् भ्याम् इति स्थिते, इदो लोपे, अत्वे पररूपे, टापि च रूपमिति भावः। आमिरित्यप्येवम् । अस्यै इति । इदम् ए इति स्थिते, मत्वपररूपटाप्सु स्याडागमे, हस्वत्वे, इदो लोप इति भावः । अस्याः इत्य. प्येवम् । अनयोरिति । इदम् ओस् इति स्थिते, इदमः इदः अनादेशे, अत्वपररूपटाप्सु, 'आडि चापः' इत्येत्त्वे, अयादेश इति भावः । प्रासामिति । इदम् आम् इति स्थिते अत्वपररूपटाप्सु, सुटि, इदो लोप इति भावः । अस्यामिति । इदम् इ इति स्थिते, अत्वपररूपटाप्सु, डेरामि, स्याहागमे, हस्वत्वे, इदो लोपः इति भावः। आस्विति । इदम् सु इति स्थिते, अत्वपररूपटाप्सु, इदो लोप इति भावः । अन्वादेशे विति । 'द्वितीयाटोस्स्वेनः' इत्येनादेशे, टापि रमावद्रूपाणि इति भावः । इति मान्ताः। अथ.जकारान्ता निरूप्यन्ते। सजशब्दं व्युत्पादयति । ऋत्विगिति । 'सृज विसर्गे। For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy