________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६०
सिद्धान्तकौमुदी
[ हल्सन्धि
नाम् १|३|१०|| समसम्बन्धी विधिर्यथासंख्यं स्यात् । कियँ त्यः- किं यः । किवँ ्म हृलयति-किं ह्वलयति । किलें ह्रादयति किं ह्रादयति । (१२६) नपरे नः ८|३|२७|| नपरे हकारे परे मस्य नः स्याद्वा । किन् हुते - किं हुते । (१३०) णोः कुकटुकारि ||३|२८|| ङकारणकारयोः कुटुकावागमो वा स्तः शरि । कुक्टुकोर सिद्धत्वाज्जश्त्वं न । 'चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्' ( वा ५०२३ ) । पौष्करसादिराचार्यः । प्राषष्ठः - प्राङ्खष्ठः - प्राड् षष्ठः । सुग
ܢ
साम्यमिह संख्यातो विवक्षितम् । अनुदेशः विधानम् । समानामिति यदि कर्मणि षष्ठी तर्हि स्थान्यादिभिः समसंख्यानां यत्र विधानम्, यथा एचोऽयवायाव इत्यादौ, तत्रैव यथासंख्यप्रवृत्तिः स्यात् । 'समूलाकृतजीवेषु हन् कृन् ग्रहः" इत्यत्र न स्यात्, तत्र विधेयस्य णमुल एकत्वात् । अतः समानामिति सम्बन्धसामान्ये षष्ठी । एवं च समूलाद्युपपदानां हनादिधातूनां च समसंख्यानामुपादानेन एकस्य प्रत्ययस्य विधिरपि समसंख्याकसम्बन्धी विधिरेवेति तत्रापि यथासंख्यप्रवृत्तिर्निर्बाधा । तदाहसमसम्बन्धी विधिरिति । यथासंख्यमिति । संख्याशब्देनात्र प्रथमत्वद्वितीयत्वादिरूपाः संख्याघटितधर्माः विवक्षिताः, तान् अनतिक्रम्य यथासंख्यम् । ततश्च एचोऽयवायाव इत्यादिषु प्रथमस्य स्थानिनः प्रथमः आदेशः, द्वितीयस्य द्वितीय इत्येवं क्रमेण स्थान्यादेशतन्निमित्तादीनां समसंख्याकानां क्रमेण अन्वयः प्रतिपत्तव्य इति फलि - तम् । प्रकृते च यपरके हकारे परे मकारस्य यकारः, वपरके वः, लपरके लः, इति सिध्यति । कियूँ ह्य इति । मस्य यत्वे रूपम् । ह्य इत्यव्ययम्, पूर्वेधूरित्यर्थः । यत्वाभावे मोऽनुस्वारः । किव् जयतीति । मस्यवत्वम् । हल चलने, णिच् । किल ह्रादयतीति । मस्य लत्वम् । ह्लादी सुखे च णिच् । नपरे नः । हे इति वेति म इति चानुवर्तते । नः परो यस्मादिति विग्रहः । तदाह - नपरे इकार इत्यादिना । किन् हृत इति । हुड् अपनयने । मस्य नत्वे रूपम् । तदभावे मोsनुस्वारः ।
1
जो: कुटुकारि । 'हे मपरे वा' इत्यतः वेत्यनुवर्तते । कुकू च टुक् चेति समाहारद्वन्द्वः । आगमाविति । एतच्च आद्यन्तौ टकिताविति लभ्यम् । यथासंख्यपरिभाषया डकारस्य कुक्, णकारस्य टुक् । उभयत्र ककार इत्, उकार उच्चारणार्थः । प्राङ् षष्ठः, सगुण षष्टः, इति स्थिते, यथाक्रमं कुकि टुकि च तयोः पूर्वावयवत्वेन पदान्तत्वात् जश्त्वमाशङ्कयाह — कुटुको रिति । चयो द्वितीयाः । पौष्करसादिशब्दस्य चयो द्वितीया इत्यर्थभ्रमं वारयति - पौष्करसादिराचार्य इति । तथाच विकल्पः फलतीति भावः । प्राक् षष्ठ इति कुकि रूपम् । चयो द्वितीया इति पक्षे प्राङ्ख् षष्ठ इति रूपम् । नचात्र खकारस्य खरिचेति चर्त्यम्, खकारारम्भविधिसामर्थ्यात् । चयो
I
For Private and Personal Use Only