SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [ कारक 'ग्यदाधमर्ययोः २।३।७०॥ भविष्यत्यकस्य भविष्यदाधमार्थेनश्च योगे षष्ठी न स्यात् । सतः पालकोऽवतरति । व्रज गामी । शतं दायो। (६२६) कृत्यानां कर्तरि वा २।३।७१॥ षष्ठो वा स्यात् । मया-मम वा सेव्यो हरिः । कर्तरि इति किम् । गेयो माणवकः साम्नाम् । 'भव्यगेय- (सू २८९४) इति कर्तरि यद्विधा. नादनभिहितं कम । भत्र योगो विभज्यते । कृत्यानाम् । उभयप्राप्तौ इति, न इति चानुवर्तते । तेन नेतच्या व्रज गावः कृष्णेन । ततः कर्तरि वा। उक्तोऽर्थः। वर्तमानयोः अकेनोः योगे षष्ठी नेति फलितम्। तत्र आधमोशः अकेन नान्वेति 'आवश्यकाधमर्ययोणिनिः' इत्युक्तेः । अतः भविष्यदंश एवाके अन्वेति । इनेस्तु भविष्यदाधमयॆयोरुभयोरप्यन्वयः, सम्भवात् । तदाह-भविष्यश्यकस्येति । भविष्यदाधमार्थेनश्चेति । भविष्यदर्थकस्य आधमार्थकस्य चेन इत्यर्थः। सतः पालक इति । सज्जनान् पालयिष्यन् हरिः प्रादर्भवतीत्यर्थः । 'तुमुन्ण्वुलौ क्रियायां क्रिया. र्थायाम्' हात भविष्यति ण्वुल, तत्र 'भविष्यति गम्यादयः' इत्यतो भविष्यतीत्यनुवृ. त्तेः । ओदनस्य पाचक इत्यत्र तु न षष्ठीनिषेधः, ‘ण्वुल्तृचौ' इत्यस्य भविष्यति वि. धानाभावात् । व्रजं गामीति । 'गमेरिनिः' इत्यौणादिक इनिः । स च भविष्यति वि. हितः, 'भविष्यति गम्यादयः' इत्युक्तेः। गोष्ठं गमिष्यन्नित्यर्थः। शतं दायीति । ऋणत्वेन गृहीतं शतं प्रत्यर्पयतीत्यर्थः । 'आवश्यकाधमय॑योणिनिः इत्याधमण्य णिनिः । तस्य भविष्यति विधानाभावात् भविष्यदर्थकतया गतार्थत्वं न शङ्कयम् । ____ कृत्यानाम् । शेषपूरणेन सूत्रं व्याचष्टे-षष्ठी वा स्यादिति । कृत्या इत्यधिकृत्य विहिताः कतिपयकृत्प्रत्ययविशेषाः, तद्योगे कर्तरि षष्ठी वा स्यादित्यर्थः । 'कर्तृकमणोः' इति नित्यं प्राप्ते विकल्पोऽयम् । मया मम वा सेव्यो हरिरिति । 'षे सेवायाम्। 'ऋहलोयॆत्' इति कर्मणि ण्यत्प्रत्ययः । अस्मच्छब्दार्थस्य कर्तुः अनभिहितत्वात् षष्ठीतृतीये । गेय इति । नन्विह साम्नः कर्मत्वस्य 'अचो यत्' इति यत्प्रत्ययाभिहि. तत्वात् कथं षष्ठीप्रसक्तिरित्यत आह-भव्येति । ननु 'नेतव्या व्रजं गावः कृष्णेन' इत्यत्र कृत्यसञ्जकतव्यप्रत्यययोगात् । उभयप्राप्तौ' इति बाधित्वा कृष्णात् षष्ठीवि. कल्पः स्यात्, व्रजातु 'कर्तृकर्मणोः कृति' इति नित्यं षष्ठी स्यादित्यत आहअत्र योगो विभज्यत इति। विभागप्रकारं दर्शयति-कृत्यानामिति । अनुवर्तत इति । तथाच कृत्ययोगे कर्तृकर्मणोः उभयोः प्रसक्ता षष्ठी नेत्यर्थः फलति । नेतव्या व्रजमिति । 'गणकर्मणि वेष्यते' इति व्रजाद्विकल्पस्तु न भवति। नेता अश्वस्य स्वघ्नस्य स्त्रुघ्नं वेति उभयप्राप्तिरहिते कृत्यव्यतिरिक्ते चरितार्थस्य 'दोग्धव्या गावः पयः कृष्णन' इत्यादौ गुणकर्मणः उक्तत्वेन प्रधानकर्मणि चरितार्थनानेन परत्वात् बाधात्। For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy