SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [स्त्रीप्रत्यय - २४॥ प्रमाणे यः पुरुषस्तदन्ताद्विगोड/ब्वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्माः सा द्विपुरुषो-द्विपुरुषा वा परिखा। (४८३) ऊधसोऽनङ ५।४।१३१॥ ऊधोऽन्तस्य बहुव्रीहेरनादेशः यात् स्त्रियाम् । इत्यनकि कृते डाब्दीन्निषेधे रिमाण' इति पूर्वसूत्रे परिमाणशब्देन किं परिच्छेदकमात्रं विवक्षितम् , उत 'ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात्' इति वातिकानुसारेण परितः सर्वतः आरोहतः परिणाहतश्च येन मीयते तत् परिमाणमित्याढककुउवाद्येव आयामव्यावृत्तं विवक्षितम् ? नाद्य, तथा सति द्वौ हस्तौ प्रमाणमस्या इति विग्रहे द्विहस्ता भित्तिरित्यत्र पूर्ववन्मात्रचो लुकि डीग्निषधो न स्यात् । न द्वितीयः, तथा सति काण्डशब्दस्यायामप्रमाणपरतया उक्तपरिमाणपरत्वाभावेन 'अपरिमाण इत्यनेनैव द्विकाण्डा क्षेत्रभक्तिः इत्यत्रापि डीग्निषेधसम्भवेन 'काण्डान्तात् क्षेत्रे इति सूत्रारम्भवैयर्थ्यादित्युभयतः पाशा रज्जुरिति चेत्, सत्यम्-'अपरिमाण' इति पूर्वसूत्रे पारिभाषिकमेव परिमाणं विवक्षितं, न त्वायामोऽपि ततश्च द्विहस्ता भित्तिरित्यत्र 'अपरिमाण' इति डीनिषेधो निर्बाधः। काण्डान्तादिति सूत्रं तु काण्डान्तात् क्षेत्र एव डीग्निषेधः, नान्यत्र द्विकाण्डी रज्जुरित्यादाविति। नियमार्थमित्यन्यत्र विस्तरः। पुरुषात् । द्विगोरिति तद्धितलुकीति डीबिति चानुवर्तते। तदाह-प्रमाणे य इत्यादिना। प्रमाणमायामः, 'आयामस्तु प्रणाणं स्यात्' इति वचनात्। द्वौ पुरुषाविति । पञ्चहस्तायामः पुरुष इत्युच्यते, 'पञ्चारत्निः पुरुषः' इति शुल्बसूत्रात् । द्वौ पुरुषो प्रमाणमस्या इति विग्रहे 'तद्धितार्थ इति द्विगुसमासः । 'प्रमाणे द्वयसज्दन्नमात्र" इति विहितस्य मात्रच: 'प्रमाणे लः, 'द्विगोनित्यम्' इति लुक् । अत्र उक्तरीत्या पुरुपप्रमाणस्य आयामात्मकस्य 'अपरिमाण' इति नित्यं डीग्निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । 'अन्ये तु तदस्य परिमाणम्' इति ठकः ठजो वा 'अध्यर्ध' इति लुक् । तत्र हि उत्तरसूत्रानुरोधात् परिमाणशब्देन परिच्छेदकमात्रं गृह्यते इत्याहुरित्यास्तां तावत् । दिपुरुषी द्विपुरुषा वा परिखेति। तिर्यक् द्विपुरुषायतेत्यर्थः । दुर्ग परितः तत्संरक्षणार्थो जलाशयः परिखा। ___ अथ कुण्डमिव ऊधो यस्या इति बहुव्रीहौ कुण्डोधस्शब्दः। तत्र विशेषमाहऊधसोऽनङ् । 'बहुव्रीहौ सक्थ्यक्ष्णोः' इत्यतो बहुवीहावित्यनुवृत्तं षष्ट्या विपरिणम्यते, अधसः इत्यनेन विशेष्यते, तदन्तविधिः । तदाह-ऊधोऽन्तस्येति । समासान्तप्रकरगस्थत्वेऽपि ङित्त्वादस्यादेशत्वं बोध्यम् । इत्यनङि कृते इति । अनकि डकार इत् , अकार उच्चारणार्थः, डिच्च' इत्यन्त्यस्य सकारस्य अन् , पररूपम् , कुण्डोधन् इति स्थिते सतीत्यर्थः । डाम्डीविनषेधेष्विति । 'डाबुभाभ्याम्' इति वैकल्पिके डापि, For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy