________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२०
सिद्धान्तकौमुदी
[तत्पुरुषसमास
कान्तेन सह प्राग्वत्। तत्रभुक्तम् । (७२४) क्षेपे २११४७॥ सप्तम्यन्तं तान्तेन प्राग्वन्निन्दायाम् । 'अवतप्तेनकुलस्थितं त एतत्' (७२५) पात्रेसमितादयश्च २॥१॥४८॥ एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमय एव सङ्गताः, न तु कायें । गेहेशरः। गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषा समासान्तरे घटकतया प्रवेशो न । परमाः पात्रेसमिताः। (७२६) पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन २॥१४॥ विशेषणं विशेष्येण-' ( सू ७३६ ) इति सिद्धे पूर्वनिपातनियमार्थ सूत्रम् । एकाशब्दस्य ग्रहणम् । सप्तमीति क्तनेति चानुवर्तते । तदाह-तत्रेत्येतत् सप्तम्यन्त क्तेन सह प्राग्वदिति । तत्रभुक्तमिति । समासस्वरः प्रयोजनम् । तत्रभुक्तस्येदं तात्रभुक्तम् इति च । क्षेपे । सप्तमीति क्तेनेति चानुवर्तते । तदाह-सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायामिति । अवतप्तेनकुलस्थितं त एतदिति । स्थितमितिभावे क्तः। नकुलेन स्थितम् । 'कर्तृकरणे कृता बहुलम्' इति समासः। 'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति परिभाषया नकुलस्थितशब्दोऽपि कान्तः । तेन सहावतप्ते इति सप्तम्यन्तस्य अनेन समासे कृते 'तत्पुरुषे कृति' इत्यलुक् । हे देवदत्त, ते तव, एतत् अवस्थानम् , अवतप्ते नकुल. स्थितमित्यन्वयः । यथा अवतप्तप्रदेशे नकुलाः न चिरं तिष्ठन्ति तथा कार्याण्युपक्रम्य तान्यनिर्वयं इतस्ततो धावनमित्यर्थः । अव्यवस्थितोऽसीति निन्दा ज्ञेया। पात्रेसमितादयश्च । निपात्यन्त इति । कृतसमासादिकार्या एते शब्दा निदिश्यन्त इत्यर्थः । पात्रेसमिता इति । इण गतौ सम्पूर्वात् 'गत्यकर्मक' इति कर्तरि क्तः । निपातनात् सप्तम्या अलुक् । भोजनपात्रे निहिते सति सङ्गता इत्यर्थः। फलितमाह-भोजनैति । गेहेशूर इति । गेह एव प्रकटितशौर्यः, न तु युद्ध इत्यर्थः । गेहेनदीति । नर्द शब्दे, 'सुप्यजातो' इति णिनिः। समासे सति निपातनादलुक । गेह एव गर्जति, युद्धादौ तु न प्रवर्तत इत्यर्थः । चकारोऽवधारणार्थ इति । ततश्च एते यथा गणे पठितास्तथैव भवन्ती. त्यर्थः । ततः किमित्यत आह-तेनेति । ततश्च परमाश्च ते पात्रेसमिताश्चेत्यादौ समासो न भवति । __ पूर्वकालैक । सुबित्यनुवृत्तं बहुवचनेन विपरिणम्यते । सुपेति चानुवर्तते। पूर्वः कालो यस्य स पूर्वकालः । पूर्वकालवृत्तिरित्यर्थः। ततश्च पूर्वकालेत्यनेन पूर्वकालवृत्त्यर्थक. शब्दस्य ग्रहणम् । एकादिशब्दास्तु षट् स्वरूपपरा एव । तथाच पूर्वकालादयस्सप्त सुबन्ताः समानाधिकरणेन सुबन्तेन समस्यन्ते, स तत्पुरुष इत्यर्थः। समानम् एकम् अधिकरणं वाच्यम् यस्येति विग्रहः । एकार्थवृत्तित्वं सामानाधिकरण्यमिति फलितम् । पूर्वनिपातेति । पश्चादनुलिप्तः पूर्व स्नातत्वेन, पूर्व स्नातो वा पश्चादनुलिप्तत्वेन
For Private and Personal Use Only