SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४६ सिद्धान्तकौमुदी [ कारक प्साविरामप्रमादार्थानामुपसङ्ख्यानम्' (वा १०७९) । पापाज्जुगुप्सते, विरमति । धर्मात्प्रमायति । (५८८) भीत्रार्थानां भयहेतुः१४॥२५॥ भयार्थानां त्राणार्थानां च प्रयोगे भयहेतुरपादानं स्यात् । चोराद्विभेति चोरास्त्रायते । भयहेतुः किम् । अरण्ये बिभेति, त्रायते वा । (478) पराजेरसोढः शा२६॥ पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते। ग्लायतीत्यर्थः । असोढः किम् । शत्रून्पराजयते । अभिभवतीत्यर्थः । (५४०) वारणार्थानामोप्सितः । १४॥२७॥ प्रवृत्तिविघातो वारणम् , वारणार्थानां धातूनां प्रयोगे ईप्सितोऽर्थो. ऽपादानं स्यात् । यवेभ्यो ग वारयति । ईप्सितः किम् । यवेभ्यो गां वारयति क्षे. अपादानत्वमिति भाष्ये स्पष्टम् । ननु विश्लेषानुकूलचलनानाश्रयभूतं यत् तदेव ध्रुव. मिति व्याख्यायताम् । किमवधित्वविवक्षयेत्यत आह-धावतोऽश्वात् पततीति । अश्वस्य चलनाश्रयत्वेऽपि पतनक्रियां प्रति कस्मादित्याकाङ्क्षाविषयत्वलक्षणमवधित्वं न विरुद्धमिति भावः । जुगुप्सेति । जुगुप्साधर्थकधातुभिर्योगे जुगुप्सादिविषयस्यापादा. नत्वमित्यर्थः । पापाज्जुगुप्सत इति । पापविषये कुत्सितत्वबुद्धया न रमते इत्यर्थः । विरमतीति । पापादित्यनुषज्यते । पापविषये न प्रवर्तत इत्यर्थः । धर्मात् प्रमाद्यतीति । धर्मविषये मुह्यतीत्यर्थः । वास्तवसंयोगविश्लेषयोरभावात् वचनमिदम् । यदा तु जुगुप्सते इत्यादेजुगुप्सादिभिनिवर्तत इत्यर्थ आश्रीयते, तदा बुद्धिकृतविश्लेषावधित्व. मादाय अपादानत्वादेव सिद्धमिति वातिकमिदं भाष्ये प्रत्याख्यातम् । ___ भोत्रा । चोरादिभेतीति । चोरेण हेतुनेत्यर्थः । हेतुतृतीया प्राप्ता । चोरात्रायत इति । चोरण हेतुना आत्मानं तत्कृतवधबन्धनादिनिवृत्त्यै रक्षतीत्यर्थः । यदा तु चोरात् बिभेति भीत्या निवर्तते, चोरात्त्रायते आत्मानं त्रातुं निवर्तयतीत्यर्थः माश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादायापादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम् । पराजेरसोढः । सहधातोः क्तप्रत्यये धत्वढत्वष्टुत्वढलोपेषु कृतेषु 'सहिवहो. रोदवर्णस्य' इत्योत्त्वे सोढ इसि रूपम् । तत्र तार्थो भूतकालो न विवक्षितः । तदाहअसह्योऽर्थ इति । सोढुमशक्य इत्यर्थः। हेतुतृतीयाऽपवादोऽयम् । ग्लायतीत्यर्थ इति । असहनादिति शेषः । यदा तु असहनानिवर्तत इत्यर्थ आश्रीयते, तदा ध्रुवमित्यपादा. नत्वादेव सिद्धमिति भाष्यम् । अभिभवतीति । तिरस्करोतीत्यर्थः । अत्र शत्रूणाममि. भवनीयतया असह्यत्वान्नापादानता। वारणार्थानामीप्सितः । प्रवृत्तिविमुखीकरणं वारणम् । यवेभ्य इति । यथेषु प्रवर्तितु. कामां गां प्रवृत्तिविमुखीकरोतीत्यर्थः । संयोगपूर्वकविश्लेषाभावात् 'ध्रुवमपाये' इत्यप्रामाविदं वचनम् । तत्र यवानां स्वकीयतया संरक्षणीयत्वेन ईप्सितत्वादपादानत्वं, For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy