________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता ।
प्राणित्वेऽपि चतुर्थी न । 'न त्वां शुने मन्ये' इत्यत्र प्राणित्वेऽपि भवत्येव । ( ५८५) गत्यर्थकर्मणि द्वितीयाचतुर्थ्यां चेष्टायामनध्वनि २|३|१२ ॥ अध्वभिन्ने गत्यर्थानां कर्मण्येते स्तश्चेष्टायाम् । ग्रामं प्रामाय वा गच्छति । चेष्टायाम् किम् । मनसा हरिं व्रजति । अनध्वनि इति किम् । पन्थानं गच्छति । मन्त्रा• ऽधिष्ठितेऽध्वन्येवायं निषेधः । यदा तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ।
४४५
(५८६) ध्रुवमपायेऽपादानम् १|४|२४|| अपायो विश्लेषः तस्मिन्साध्ये मधिभूतं कारकमपादानं स्यात् । ( ५६७) मपादाने पञ्चमी २३|२८|| ग्रामादायाति । धावतोऽश्वात्पतति । कारकम् किम् । वृक्षस्य पर्ण पतति । 'जुगु-'
भावः । न त्वां शुने मन्ये इति । हे देवदत्त त्वां श्वत्वेनापि न मन्ये इत्यर्थः । न त्वां काकं मन्ये, न त्वां शुकं मन्ये, न त्वां सृगालं मन्ये इत्यप्युदाहार्यम् । एषु प्राणित्वेsपि न चतुर्थीविकल्प इति भावः ।
I
1
गत्यर्थ । शारीरपरिस्पन्दश्चेष्टा | मनसेति । अत्र शारीरचेष्टायाः अभावान्न द्वितीचतुर्थ्यो, किन्तु द्वितीयवेति भावः । 'आस्थितप्रतिषेधो वक्तव्यः' इति वार्तिकमर्थतः संगृह्णाति — मन्त्राऽधिष्ठिते इति । मन्त्राक्रान्ते अध्वन्येव अनध्वनीत्ययं निषेध इत्यर्थः । यथा - पन्थानं गच्छतीति । पन्थानं प्राप्नोतीत्यर्थः । अत्र पथः प्राप्त्याश्रयत्वेन मन्त्राधिष्ठितत्वान्निषेधः । अस्य वार्तिकस्य प्रयोजनमाह - -यदा विति । उत्पथादिति । अमार्गादित्यर्थः । त्यब्लोपे पञ्चमी । उज्जयिनीं प्राप्तुं प्रस्थितः मोहात्तन्मार्गात् प्रच्युतः मार्गान्तरं प्रविष्टः । तं परित्यज्य पुनरुज्जयिनीमार्गः आक्रमितुमिष्यते, तदा अनध्वनीति निषेधाभावाच्चतुर्थ्यापि भवत्येवेत्यर्थः । तादृशं लक्ष्यं दर्शयति- उत्पथेन पथे गच्छतीति । उत्पथेनेत्यनन्तरं गन्तुमशक्त इति शेषः । उत्पथेन उज्जयिनीं प्राप्तुमशक्तः उत्पथं परित्यज्य उज्जयिनीमार्ग प्रवेष्टुं तदीयं मार्गमनुसरतीत्यर्थः । अत्र उज्जयिनीमार्गस्य गन्त्राधिष्ठितत्वाभावात् अनध्वनीति निषेधो न भवति, अतश्चतुर्थी भवति, पक्षे द्वितीया चेति भावः । इति चतुर्थीविभक्तिः ।
अथ पञ्चमी विभक्तिः । ध्रुवमपाये । अपायपदं व्याचष्टे - अपायो विश्लेष इति । वियोग इत्यर्थः । ध्रुवपदं व्याचष्टे - अवधिभूतमिति । द्वयोः संयुक्तयोरन्यतस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृशचलनानाश्रयभूतं ध्रुवम् । तच्चेहार्थादवधिभूतं विवक्षितमिति भावः । अपादाने पञ्चमी । स्पष्टत्वान्न व्याख्यातम् । ग्रामादायातीति । आगच्छतीत्यर्थः । कस्मादित्याकाङ्क्षाविषयत्वात् ग्रामोऽवधिरिति अपादानत्वात् पञ्चमी । माधुराः पाटलीपुत्रकेभ्यः आढ्यतराः इत्यादौ बुद्धिकल्पितविशेषावधित्वमादाय
For Private and Personal Use Only