________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६६
सिद्धान्तकौमुदी
[ अव्ययीभाव
दिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् । ( ६७६) समालान्ताः ५|४|६८ ॥ इत्यधिकृत्य । ( ६७७ ) अव्ययीभावे शरत्प्रभृतिभ्यः । ५|४|१०७ || शरदादिभ्यष्टच्स्यात्समासान्तो ऽव्ययीभावे | शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाश् । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह् । दिशू । दृश् । विश् । चेतस् । चतुर् | त्यद् । तद् । यद् । कियत
इति सूत्रे अन्यतरस्याङ्ग्रहणेन उत्सर्गापवादयोर्महाविभाषाविषयत्वात् अपवादाभावे उत्सर्गस्याप्रवृत्तिरिति ज्ञापितेऽर्थं उन्मत्तगङ्गमित्युदाहृतम् । 'अव्ययीभावेन मुके बहुव्रीहिर्न' इति चोक्तं भाष्ये । अस्य समासस्य नित्यत्वे तु तदसङ्गतिः स्पष्टेंव, कदाप्यव्ययीभावमुक्त्यसम्भवात् ।
1
समासान्ताः। इत्यधिकृत्येति । आपादपरिसमाप्तेरिति भावः । अत्र समासपदम् अलौकिकविग्रहवाक्यपरमेव । अत एव बहुकुमारीक इत्यत्र ह्रस्वो न । 'गोस्त्रियोः " इति सूत्रे 'अन्तः' इति सूत्रे च भाष्ये स्पष्टमेतत् । एवं चालौकिकविग्रहवाक्ये समाससंज्ञा समकालमेव समासान्ता इति सिद्धान्तः । अन्तशब्दश्चरमावयववाची । अत एव उपशरदमित्यादौ 'नाव्ययीभावात्' इत्यम् । तत्र रचस्तदनवयवत्वे टजन्तस्याच्ययीभावसमासत्वाभावादम् न स्यात् । तथा च टचस्तदनवयवत्वे 'अव्ययानां भमात्रे टिलोपः' इति प्रसज्येत । टचस्तदवयवत्वे तु तदन्तस्यैवाव्ययीभावसमासतया अव्ययत्वादुपशरद् इत्यस्याव्ययत्वाभावान्न टिलोपः । समासान्तप्रत्ययाश्चालौकिकविग्रहवाक्ये सुपः परस्तादेव भवन्ति । अत एव 'प्रत्ययस्थात्' इति सूत्रभाष्ये 'बहुचर्मिका' इत्युदाहृतं सङ्गच्छते । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः ।
अव्ययीभावे । 'राजाहरू सखिभ्यष्टच' इत्यतः टजित्यनुवर्तते । तदाह - शरदादिभ्य इति । अव्ययीभावे उत्तरपदं यत् शरदादिप्रकृतिकं सुबन्तं तदन्तात् टच् स्यात् । स च अलौकिकविग्रहवाक्यान्तावयव इत्यर्थः । उपशरदमिति । 'अव्ययं विभक्ति' इत्यादिना समीपार्थकस्य उपेत्यव्ययस्य शरद इति षष्ठ्यन्तेनाव्ययीभावः । टच् । टचः समासावयवत्वेन तदन्तस्याव्ययीभावसमासत्वात् 'नाव्ययीभावात्' इत्यम् । उपशरद् इत्यस्य अव्ययीभावसमासत्वाभावात् अनव्ययत्वात् 'अव्ययानां भमात्रे टिलोपः ' इति न भवति । विपाट्शब्दो नदीविशेषे वर्तते । 'विपाशा तु विपाट् स्त्रियाम् इत्यमरः । 'लक्षणेनाभिप्रती' इति अव्ययीभावसमासः । शरदादिगणं पठतिशरदित्यादिना । अत्र झयन्तानां 'झयः' इति विकल्पे प्राप्ते नित्यार्थः पाठः । 'जराया जरश्च' इति शरदादिगणसूत्रम् । जराशब्दस्य जरसादेशश्चास्मिन् गणे
For Private and Personal Use Only