SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १७ ] बालमनोरमासहिता। ४६७ 'जराया जरस् च (ग १४७)। उपजरसम् । 'प्रतिपरसमनुभ्योऽक्षणः।(ग १४८) 'यस्येति च? (सू ३११)। प्रत्यक्षम् । अक्ष्णः परम् इति विग्रहे समासान्तविधानसामर्थ्यांदव्ययीभावः । 'परोक्षे लिट' ( स २१५१) इति निपातनात्परस्यौकारादेशः । परोक्षम् । 'परोक्षा क्रिया' इत्यादि तु अर्शआद्यचि। समक्षम् । अन्वक्षम् । (६७) अनश्च ५।४।१०॥ अन्नन्तादव्ययीभावाच्स्यात् । (६७६) नस्त. वाच्य इत्यर्थः । उपजरसमिति। जरायाः समीपमित्यर्थः। सामीप्ये उपेत्यव्ययस्य जराया इति षष्ट्यन्तेनाव्ययीभावसमासे कृते टच , सुब्लुक् , उपेत्यस्य पूर्वनिपातः । टवो विभक्तित्वाभावात् तस्मिन् परेऽप्राप्ते जरसिः अनेन जरस् । टजन्ताद्यथायथं सुपः अम्भाव इति भावः । 'प्रतिपरसम्' इत्यपि गणसूत्रम् । एतेभ्यः परस्याक्षिशब्दस्य इह गणे पाठ इत्यर्थः । यस्येति चेति । टचस्तद्धितत्वात्तस्मिन् परे इकारस्य लोप इति भावः। . प्रत्यक्षमिति । अक्षिणी प्रतीति विग्रहः । अक्ष्णोरभिमुखमित्यर्थः । 'लक्षणेत्थम्। इति कर्मप्रवचनीयत्वात् द्वितीया। 'लक्षणेनाभिप्रती' इत्यव्ययीभावः । टच , सुब्लुक् 'यस्येति च' इति इकारलोपः। प्रत्यक्षशब्दात् यथायथं सुबुत्पत्तिः, अम्भाव इति भावः । परमिति । व्यवहितमित्यर्थः। अविषय इति यावत् । अक्ष्णः परमिति विग्रहे अव्ययीभाव इत्यन्वयः। ननु परशब्दस्यानव्ययत्वात् कथमिहाव्ययीभाव इत्यत आह-समासान्तविधानसामर्थ्यादिति । प्रतिपरसमिति परशब्दात् परस्याक्षिशब्दस्य टजर्थ शरदादिगणे पाठोऽवगतः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' इत्यव्ययीभावे टविहितः । तत्सामर्थ्यादनव्ययस्यापि परशब्दस्याव्ययीभाव इत्यर्थः। परोक्षमिति । अक्ष्णः परमिति विग्रहे परमित्यस्य अक्षि इत्यनेनाव्ययीभावसमासः । टच , सुब्लुक् । परशब्दस्य ओकारोऽन्तादेशः पररूपम् । परोक्षाद्यथायथं सुप् अम्भाव इति भावः । अर्शप्राद्यचीति । परोक्षमस्यास्तीत्यर्थं परोक्षशब्दात् धर्मप्रधानात् 'अर्शआदिभ्योऽच्। इति मत्वर्थीये अच्प्रत्यये कृते 'यस्येति च इत्यकारलोपे टापि च कृते, परोक्षा क्रिया इत्यादि ज्ञेयमित्यर्थः। अत्र गणसूत्रे परग्रहणं प्रक्षिप्तमिति युक्तम् , 'परोक्षे लिट! इति सूत्रस्थभाष्यकैयटयोरत्र समासान्तस्यापि निपातनेनैव साधितत्वात् । समक्षमिति । अक्षणोोग्यमित्यर्थः । यथार्थेऽव्ययीभावः । टच , इकारलोप इति भावः । अन्वक्षमिति । अक्षणोः पश्चादित्यर्थः । पश्चादथें अव्ययीभावः । शेषं समक्षवत् । अनश्च । 'अव्ययीभावे' इत्यनुवृत्तं पञ्चम्या विपरिणम्यते। अन इति तद्विशेषणम् । तदन्तविधिः । तदाह-अन्नन्तादिति । नस्तद्धिते । न इति षष्ट्यन्तम् । तेन मस्येत्यधिकृतं विशेष्यते, तदन्तविधिः । टेरिति सूत्रमनुवर्तते । 'अल्लोपोऽनः' इत्यस्मा बा० ३२ For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy