________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १७]
बालमनोरमासहिता ।
४०१
सिद्ध्यर्थत्वात्कतिपयतिजन्तोत्तरपदोऽयं समासः । स च छन्दस्येव । पर्यभूषयत् । अनुव्यचलत् । 'सुपा'। सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् । (६५०) सुपो धातुप्रातिपदिकयोः २।४ ७१ ॥ एतयोरवयवस्य सुपो लुक्स्यात् । 'भूतपूर्व चरट' (सू १९९९) इति निर्देशाद् भूतशब्दस्य पूर्वनिपातः । पूर्व भूतो भूतपूर्वः । 'इवेन समासो विभक्त्यलोपश्च' (वा १२३६, १३४१)। स्यादित्यत आह-योगविभागस्येति । कतिपयेति । कतिपयानि तिङन्तानि उत्तरपदानि यस्येति विग्रहः । पर्यभूषयदिति। समासान्तोदात्तत्वे शेषनिघात इति 'कुगति' इति सने कैयटः । देवो देवान क्रतुना पर्यभूषयदित्यत्र तु स्वरव्यत्ययो बोध्यः। अनुव्यचलदिति । अचलदित्यनेन वेः पूर्व समासे सति तेन अनोः समासः । न त्वनुव्योर्युगपत्समासः, सुबित्येकत्वस्य विवक्षितत्वात् । अत एव महिष्या अजायाश्च क्षीरमित्यत्र क्षीरशब्देन सुबन्तयोर्न समास इति कैयटः।
सुपा । 'सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते । समास इत्यधिकृतम् । तदाहसुप्सुपेति । सुबन्तं सुबन्तेनेत्यर्थः । ततश्च पूर्व भूत हात विग्रहे समाससज्ञा स्थिता । समासत्वात् प्रातिपदिकसम्शेति । 'कृत्तद्धितसमासाश्च' इत्यनेनेति शेषः। सुपो धातु । धातुप्रातिपदिकयोरित्यवयवषष्ठीत्याह-एतयोरवयवस्येति । लुक् स्यादिति । ण्यक्षत्रियार्षभितो यूनि लुक्' इत्यतस्तदनुवृत्तेरिति भावः । न च सुप इत्यनेन सप्तमीबहुव. चनस्यैव ग्रहणं किं न स्यादिति वाच्यम् , 'पञ्चम्याः स्तोकादिभ्यः' इत्यलुग्विधानात् सुष्प्रत्याहारस्यैवान ग्रहणमिति ज्ञापनात् । नचैवमपि पूर्व भूत इति लौकिकविग्रहवाक्ये परिनिष्ठितसन्धिकार्ययोः सुबन्तयोः समासे सति पूर्वमित्यत्र अमि पूर्वरूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत । पूर्वान्तत्वे तु परिशिष्टस्य मकारस्य सुप्त्वाभावात् कथं लुगिति वाच्यम् , 'सुपो धातु' इति लुग्विषये 'अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् बाधते' इत्याश्रित्य सन्धिकार्यप्रवृत्तेः प्रागेवालौकिकविग्रहवाक्ये समासप्रवृत्तिरिति 'प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्ये स्थितम् । 'कृत्तद्धितसमासाश्च' इत्यत्र प्रौढमनोरमायामपि परिष्कृतमिद. म् । 'भस्त्रषा' इति सूत्रव्याख्यावसरे प्रपञ्चितं चास्माभिः । एवञ्च पूर्व अस् भूत स् इत्यलौकिकविग्रहदशायामेव अमो लुक्प्रवृत्ते!क्तदोषः । तथाच सुपो लुकि भूतपूर्वेति स्थितम् । ननु 'सुबन्तं सुबन्तेन समस्यते' इति समासशास्त्रे सुबन्तं प्रथमानिर्दिष्टम् । सुबन्तत्वं च द्वयोरप्यविशिष्टम् । ततश्च 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इति वक्ष्यमाणोपसर्जनत्वस्य द्वयोरप्यविशिष्टत्वात् 'उपसर्जनं पूर्वम्' इत्यन्यतरस्य पूर्वनिपाते विनिगमनाविरह इत्यत आह-भूतपूर्व चरडिति । पूर्वं भूत इति। लौकिक
३१ बा०
For Private and Personal Use Only