________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८०
सिद्धान्तकौमुदी
[ अव्ययीभाव
1
श्रितो बोध्यः । (६४८) प्राक्कडारात्समासः | २|१|३ ॥ 'कडारः कर्मधारये ' ( सू ७५१ ) इत्यतः प्राक् समास इत्यधिक्रियते । (६४६) सह सुपा २१ ॥४॥ 'सह' इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योगविभागस्येष्टपचन्तं देवदत्तं पश्येत्यादिप्रयोगदर्शनात् स्थानिनोऽपि लक्ष्य प्रक्रियार्थं कल्पितस्य अप्रथमासामानाधिकरण्यमनुमीयते ' इति कैयटः । अत्र प्रक्रियार्थं कल्पितस्येत्युक्त्या अन्यस्यापि प्रक्रियार्थं कल्पितस्य बोधकत्वकल्पना सूचिता । अलौकिकविग्रहवाक्ये श्रूयमाणानां च शब्दानां क्लृप्तशक्तित्यागे मानाभावात् प्रत्येकशक्तिसहकृतया समुदायशक्त्या विशिष्टोपस्थितिः । ततश्च अयमेकार्थीभावः अजहत्स्वार्थी वृत्तिरिष्यते । वृत्तिविषये पदानां प्रत्येकमनर्थकत्वमाश्रित्य जहत्स्वार्था वृत्तिस्तु नाश्रयितुं युक्ता, महाबाहुः, सुपन्थाः इत्यादौ आस्वाद्यनापत्तेः, वृत्तौ महदादिशब्दानामनर्थकत्वात् अर्थवद्रग्रहणसम्भवे अनर्थकस्य 'आन्महतः' इत्यादौ ग्रहणायोगात् । तदुक्तम्'जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी ।' इति
अवयवार्थविरुद्धो यत्र समुदायार्थस्तत्रैव सेति तदर्थः । यथा अश्वकर्ण मण्डपादौ । विस्तरस्तु शब्देन्दुशेखरे मज्जूषायां चानुसन्धेयः । समर्थः किम् । पश्य कृष्णं श्रितो राममित्रम् । अत्र कृष्णश्रितयोः परस्परान्वयाभावाद्विशिष्टैकार्थोपस्थित्यजन - कत्वान्न सामर्थ्यम् |
प्राक्कडारात्। ‘आकडारात' इत्येव प्रागिति सिद्धे प्राग्ग्रहणमेकसञ्ज्ञाधिकारेऽपि अव्ययीभावादिसञ्ज्ञा समुच्चयार्थमिति भाष्ये स्पष्टम् । सम्पूर्वकस्य अस्यतेरेकीकरणात्मकः संश्लेषोऽर्थः । समस्यते अनेकं पदमिति समासः । ' अकर्तरि च कारके सज्ञायाम्' इति कर्मणि घञ् । अत एव मूले समस्यते इति वक्ष्यते । तथाच अन्वथें थं सञ्ज्ञा । सह सुपा । 'सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते । सुबन्तं सुबन्तेन सहोच्चारितं समाससञ्ज्ञं भवतीति फलति । एवं सति पर्यभूषयदित्यादौ सुबन्तस्य तिङन्तेन समासो न स्यात् । तदाह-सहेति योगो विभज्यत इति । समाससञ्ज्ञाया अन्वर्थत्वादेकस्याप्रसङ्गात् सुपेत्येतावतैव सहेति सिद्धे तद्ग्रहणं योगविभागार्थमिति भावः । सहेत्यत्र 'सुबामन्त्रिते' इत्यतः सुबित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । 'समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीयया विपरिणम्यते तदाह-- सुबन्तमित्यादिना । समस्यत इति । एकीक्रियते प्रयोक्तृभिरित्यर्थः । समाससञ्ज्ञां लभत इति यावत् । केचित्तु सुबन्तं कर्तृ समर्थेन समस्यते एकीभवतीत्यर्थः । कर्तरि लट् । 'उपसर्गादस्यत्यूह्योः' इत्यात्मनेपदम् । समासशब्दोऽपि कर्तरि बाहुलकादूधजन्त एव, कर्मणि घञन्तो वा । तथा सति समस्यत इति कर्तरि तिङन्तं फलतार्थकथनपरमित्याहुः । ननु घटो भवतोत्यत्र समासे घटभवतीत्यपि लोके प्रयोगः
1
For Private and Personal Use Only