________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३६०
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
( सू ५३१ ) इत्यभिव्याप्य । अयमेव स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयति । (४७०) टिड्ढाणञ्द्वय सज्द्धनमात्र नयष्ठक्ठकञ्क्करपः ४|१|१५॥ अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । नदट्-नदी । उपसर्जनत्वान्नेह | बहुकुरुचरा । वक्ष्यमाणेत्यत्र टित्वादुगिइत्यादिना विधीयमानानां ङीबादिप्रत्ययानां प्रसक्तिरेव नास्ति, समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । तस्मादनुपसर्जनाधिकारो व्यर्थ इत्यत आह-अयमेवेति । अनुपसर्जनादित्यधिकार एवायं स्त्रीप्रत्ययेषु तदन्तविधि ज्ञापयतीत्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्फलं तु 'वनो र च' इत्यत्र वन्नन्तान्तलाभ इत्यादि ज्ञेयम् । ननु. स्त्रीप्रत्ययेषु तदन्तविध्यभावेऽपि नद इवाचरति नदा स्त्री इत्यादिषु आचारक्किबन्तप्रकृतिककर्तृक्कबन्तेषु ङीबादिनिवृत्तये अनुपसर्जनाधिकारस्यावश्यकत्वात् कथं तस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापकतेति चेत्, न -- अनुपसर्जनाधिकारस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापनार्थत्वपरभाष्यप्रामाण्येन स्त्रियामाचारक्किबन्त प्रकृतिककर्तृक्विबन्तानामनभिधानोन्नयनादित्यलम् ।
"
I
टिड्ढाणञ् । टित्, ढ, अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, करप् एषां द्वादशानां समाहारद्वन्द्वात् पञ्चम्येकवचनम् । ढादयः एकादश प्रत्ययाः । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । टित्तु प्रत्ययः अप्रत्ययश्च । टिदा - दिभिश्च प्रातिपदिकादित्यधिकृतं विशेष्यते, विशेषणत्वात् तदन्तविधिः । ततश्च टिन्तात् ढाणादिप्रत्ययान्तान्ताच्च प्रातिपदिकादिति लभ्यते । 'अजाद्यतष्टाप्' इत्यस्मादतः इत्यनुवृत्तम् तेनापि प्रातिपदिकं विशेष्यते । तदन्तविधिः । 'अनुपसर्जनातू' इत्येतत् श्रुतेषु टिदादिष्वेवान्वेति नतु तदन्तेषु । स्त्रियामित्यधिकृतम् । तदाह- अनुपसर्जनं यट्टिदादीत्यादिना । तदन्तमिति । दिदन्तं ढादिप्रत्ययान्तं चेत्यर्थः । टित् त्रिविधः । प्रत्ययः, प्रातिपदिकम् धातुश्च । तत्राद्यमुदाहरति — कुरुचरीति । कुरुषु चरतीति अधिकरणे उपपदे 'चरेष्ट' इति कर्तरि टः । टकार इत् । उपपदसमासः । नच प्रत्ययस्यैवात्र टित्त्वात् प्रत्ययग्रहणपरिभाषया चरेत्येव टिदन्तम्, नतु कुरुचरशब्दः, तदादिनियमादिति वाच्यम्, नदट् देवट् इत्यादेरप्रत्ययस्यापि टितः सत्त्वेन तत्र प्रत्ययग्रहणपरिभाषया अप्रवृत्तौ 'येन विधिः' इति विदन्तत्वस्य कुरुचर - शब्दे सत्वात् । अथ द्वितीयं टितमुदाहरति- नदडिति । पचादिगणे पठितं प्रातिपदिकमेतत् । तृतीयं तु कृदन्ते स्तनन्धयीत्युदाहरिष्यते । अनुपसर्जनत्वविशेषणस्य प्रयोजनमाह — उपसर्जनत्वान्नैहेति । बहुकुरुचरेति । बहवः कुरुचराः यस्यामिति विग्रहः । बहुव्रीहिरयमन्यपदार्थप्रधानः । ततश्च टितः टप्रत्ययस्य उपसर्जनत्वान्न ङीप् । अनुपसर्जनत्वस्य प्रातिपदिकविशेषणत्वे तु ङीबत्र दुर्वारः । अत एव च आपिशलिना
·
For Private and Personal Use Only