SearchBrowseAboutContactDonate
Page Preview
Page 905
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ सिद्धान्तकौमुदी [तद्धिते प्रागिवीय - - ५।३।६६ ॥ प्रकारवति चायम् , थाल् तु प्रकारमात्रे। पटुप्रकारः। पटुजातीयः (२०२५) प्रागिषात्कः ५।३।७० ॥ 'इवे प्रतिकृती' (सू २०५१) इत्यतः प्राक्काधिकारः । (२०२६) अव्ययसर्वनाम्नामकच्प्राक्टेः ५।३।७१ ॥ 'तिब्श्व' ( स २००२ ) इत्यनुवर्तते। (२०५७) कस्य च द: ५।३।७२ । कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च । (२०२८) अशाते ५।३।७३ ॥ कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके । 'ओकारसकारभ. शवयम् , तेषां तिडन्ते सावकाशत्वात् इति भाष्ये स्पष्टम् । एतदभिप्रेत्याह-पटु. कल्प इति । ननु सुबन्तात्तद्धितोत्पत्तिरिति सिद्धान्तादिह सुग्रहणं व्यर्थमिति पृच्छतिसुपः किमिति । तिश्चेत्यनुवृत्तिनिवृत्त्यर्थ सुग्रहणम् । नच अस्वरितत्वादेव तदनुवृ. तिर्न भविष्यति इति वाच्यम् , 'अव्ययसर्वनाम्नाम्' इत्याधुत्तरसूत्रे तिश्चेत्यनुवृ. तेरावश्यकतया तस्य स्वरितत्वावश्यकत्वादिति भाष्ये स्पष्टम् । एतदभिप्रेत्याहयजतिकल्पमिति । तुग्रहणं तु 'स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यनुवर्तन्ते, क्वचिदतिव. तन्ते' इति ज्ञापनार्थम् इति भाष्ये प्रपञ्चितम् ।। प्रकारवचने । 'प्रकारवचने थाल्' इत्यतोऽस्य वैलक्षण्यमाह-प्रकारवति चायमिति । प्रकारवत्येवेत्यर्थः। थाल तु प्रकारमात्रे इति । वस्तुतस्तु उभयमपि प्रकारवतीति न्याय्यम् , अविशेषात् । अन्यथा तथेत्यत्र सः प्रकारः इत्येवार्थ: स्यात् । नच किमा. दिभ्यो विशिष्य विहितेन थाला जातीयरो बाधात् तज्जातीयः इत्यासिद्धिरिति वाच्यम् , 'जात्यन्ताच्छ बन्धुनि' इति तज्जात्यादिशब्दात् छप्रत्ययेनैव तज्जातीयादिसिद्धः। अत एव यथाजातोयक इत्यादिभाष्यप्रयोगाः सङ्गच्छन्ते । जयादित्यस्तु भत्र प्रकार: भेदः, थाल्विधो सामान्यस्य भेदको विशेषः प्रकार इत्याह । वामनस्तु सादृश्यं भेदश्चेत्युभययपि प्रकार इत्याहुः। प्रागिवात्कः । इवशब्दस्तद्धटितसूत्रपर इति मस्वाह-इवे प्रतीति । अव्ययसर्वनाम्नाम् । अनुवर्तत इति । मण्डूकप्लुत्येति शेषः । अव्ययसर्वनाम्नां तिङन्तानां च टेः प्राक् अकच्प्रत्यय: स्यादित्यर्थः । अकचि ककारादकार उच्चारणार्थः। चकार इत् ककारान्तः प्रत्ययः । अयमपि प्रागिवादधिकारः । कस्य च दः। पूर्वसूत्रे 'अव्ययसर्व. नाम्नाम्' इति समासनिर्देशेऽपि एकदेशे स्वस्तित्वप्रतिज्ञाबलात् अव्ययमहणमेवात्रा. नुवर्तते । कस्य इत्यत्र ककारादकार उच्चारणार्थः । ककारस्येति विवक्षितम् । तेना. व्ययस्य विशेषणात् तदन्तविधिः । तदाह-कान्ताव्ययस्येति । अकच्चेति । चकारेण तद. नुकर्षादिति भावः । एतेन अकच्सन्नियोगशिष्ट एवार्य दकारः इत्युक्तं भवति । अय. मपि प्रागिवादधिकारः। अज्ञाते । अज्ञातेऽथें विद्यमानात् सुबन्तात्स्वार्थे कप्रत्ययः स्यात् । अव्ययसर्वनाम्नां तिङन्तानां च टेः प्राक् अकच् स्यात् । तत्रापि ककारा. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy