________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता।
१७१
जनत्वे च नात्वम् । सर्वाद्यन्तर्गणकार्यत्वात् । द्विर्नाम कश्चित् । द्विः । द्वो । द्वयः। द्वावतिक्रान्तोऽतिद्विः । हरिवत् । प्राधान्ये तु परमद्वावित्यादि । श्रोडुलोमिः । औडुलोमी। बहुवचनेतु उडुलोमाः। 'लोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः (वा २५६०) । बाह्वादीनोऽपवादः। औडलोमिम् । मोडलोमी। उडुलोमान् । इति इदन्ताः ॥ 'वातप्रमीः' (उ ४४१) इत्युणादिसूत्रेण माल ईप्रत्ययः । स च कित् । वातं प्रमिमीते इति वातप्रमीः । 'दीर्घाजसि च (सू २३९) । वातप्रन्यो । वात.
य॑न्तानामित्यभावे तु भवत् स इति स्थिते तकारस्य अत्वे कृते 'अतो गुणे' इति पररूपे 'उगिदचाम्' इति नुमि 'सर्वनामस्थाने' इति दीधे सुलोपे नलोपे भवा इति स्यात् । तथा भवत् औ इति स्थिते पूर्ववत्तकारस्य अत्वे पररूपे नुमि दीर्धे च भवानाविति स्यादिति भावः । अथ यदुक्तं 'संज्ञोपसर्जनीभूतानां सर्वादिगणकार्यमन्तर्गण. कार्य च न भवति' इति तत् स्मारयति-संशायामित्यादिना। दिर्नामेति । नामेत्यव्ययं प्रसिद्धौ । द्विरिति प्रसिद्धः कश्चित् इत्यर्थः । अत्र च संज्ञाभूतस्य द्विशब्दस्य एकद्विबहुवचनानि सन्ति, एकद्विव्यादिष्वपि द्विसंज्ञकत्वसम्भवादित्यभिप्रेत्य आहद्विः द्वी द्वय इति । प्रतिद्विरिति । 'अत्यादयः' इति समासः। परमद्वाविति । कर्मधारयोऽयम् । संज्ञोपसर्जनत्वाभावादिह अत्वं भवत्येव । आङ्गत्वेन पदाङ्गाधिकारपरिभाषया तदन्तग्रहणादिति भावः ।
उडूनि नक्षत्राणीव लोमानि यस्य सः उडुलोमा। तस्यापत्यमोडुलोभिः 'बा. ह्वादिभ्यश्च' इति इन् । 'नम्तद्धिते' इति टिलोपः । आदिवृद्धिः। अस्य एकवचन द्विवचनयोः सर्वत्र हरिवद्रपम् । तदाह-औडुलोमिः । औडुलोमी इति । बहुव चने तु उडु. लोमा इति । ननु तथा रूपं कथम् , बाह्वादिगणस्थत्वेन इन: प्रसङ्गादित्यत आहलोम्नोऽपत्येषु बहुष्वकारो वक्तव्यः। लोमन्शब्दात् बहुष्वपत्येषु विवक्षितेषु अकारः प्रत्ययो वक्तव्य इत्यर्थः। बाहादीञ इति । बाह्वादिगणाद्विहितस्य इमोऽपवाद इत्यर्थः। उडुलोमन् अ इति स्थिते 'नस्तद्धिते' इति टिलोपः। णित्वाभावात् कित्वाभावाच्च नादिवृद्धिः । उडुलोमशब्दः अकारान्तः । तस्य सर्वत्र बहुवचनेषु रामवद्रपमिति भावः । इदन्तप्रकरणम् । - अथेदानीमीकारान्ता निरूप्यन्ते । तत्र वातप्रमीशब्दो द्विधा । 'माङ् माने' इति धा. तोरीप्रत्ययान्तः क्विबन्तश्च । तत्र प्रथम व्युत्पादयति-वातप्रमीरित्यादिना । किदित्यनन्तरं निपात्यत इति शेषः । वातमिति । वातमित्युपपदे कर्तरि माङ्धातोरीप्रत्यये किस्वात् 'मातो लोप इटिच' इत्याल्लोपे 'उपपदमति' इति समासे तस्मात् सुबुत्पत्तौ वातप्रमीरिति प्रथमैकवचनम् । अड्यन्तत्वान्न सुलोपः। एतदर्थमेव हल्ङ्यादिसूत्रे
For Private and Personal Use Only