________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २०]
बालमनोरमासहिता।
६१५
(88) भधिकरणैतावत्वे च २४॥१५॥ द्रव्यसङ्ख्यावगमे एकवदेवेति नियमो न स्यात् । दश दन्तोष्ठाः । (४२०) विभाषा समीपे २।४॥१६॥ अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एव इत्येवंरूपो नियमो वा स्यात् । उपदशम् , दन्तोष्ठम् । उपदशाः, दन्तोष्ठाः। (६२१) मानतोद्वन्द्वे ६३।२५॥
नियमप्रक्रमेऽपि नानेन नियमस्यैव निषेधः, ब्रह्मप्रजापती इत्यादौ नियमल्याप्राप्तेः । किन्त्वेकवत्त्वस्यैव । तथाच 'चायें। इति समाहारद्वन्द्वस्य निषेधः फलति । भधिकर. पैतावरवे च । अधिकरणं द्रव्यं, तस्य एतावत्त्वमियत्ताविशेषः । तदाह-द्रव्यसङ्ख्या. वगमे इति। समस्यमानपदार्थस्येयत्ताविशेषे पदान्तरसमभिव्याहारगम्ये इत्यर्थः । नियमो नेति । ब्रह्मप्रजापती इत्यादौ समाहार एव द्वन्द्व इति नियमस्य प्रकृतल्या. प्रवृत्तेरेकवत्वनिषेधः पूर्वसूत्रे आश्रितः । इह तु बाधकामात् प्रकृतस्य नियमस्यैव निषेध आश्रित इति भावः । दश दन्तोष्ठा इति। दन्ताश्च ओष्ठाश्चेति विग्रहः । इतरेतरयोगद्वन्द्वोऽयम् , न तु समाहारद्वन्द्वः। समासार्थसमाहारविशेषणीभूतसमस्यमानपदार्थानां पदान्तरलभ्यदशत्वसापेक्षत्वेनासामर्थ्यात् । इतरेतरयोगद्वन्द्वस्तु भवत्येव, तत्र समस्यमानपदार्थानामेव प्रधानत्वात् 'उपमितं व्याघ्रादिभिः' इति सूत्रभाष्ये प्रधानस्य सापेक्षत्वेऽपि समासाभ्युपगमात् । ततश्चात्रैकवदेवेति नियमाभावे सति असामर्थ्यात्समाहारत्वे निवृत्ते परिशेषादितरेतरयोगत्वमेवावतिष्ठते । बदि त्वेकवन्न स्यादित्येव व्याख्यायेत, तर्हि समाहारद्वन्द्वो नेत्यर्थः पर्यवस्येत् । तथा सति दश दन्तोष्ठाः इतीतरेतरयोगद्वन्द्वो न स्यात् , 'द्वन्द्वश्च प्राणितूर्य' इति तन्निषेधात् । तथाच वाक्यमेव स्यात् । किञ्च समाहारद्वन्द्वनिषेधोऽयं व्यर्थ एव, उक्तरीत्या सापेक्षत्वेनासामर्थ्यादेवाप्राप्तेः । अतः एकवदिति नियमो न स्यादित्येव व्याख्येयम् । एवं च प्राण्यङ्गनिबन्धनस्य एकवदेव स्यादिति नियमस्य इतरेतरयोगद्वन्द्वानिवृत्तिफलकस्यानेन निषेधे सति इतरेतरयोगद्वन्द्वस्यावस्थितिः फलतीति पदमार्यो स्पष्टम् ।
विभाषा समीपे। अधिकरणैतावत्त्वे इत्यनुवर्तते । समीपे इत्यस्य सामीप्येन परि. च्छिन्ने सतीत्यर्थः । फलितमाह-अधिकरणेति । उपदशं दन्तोष्ठमिति । दशानां समीपे इत्यर्थेऽव्ययीभावः । उक्तरीत्याऽसामर्थेऽपि वचनसामर्थ्यात्समाहारद्वन्द्वः । समान. लिङ्गवचनत्वादव्ययीभावस्यैवानुप्रयोगः इति भाष्यम् । अत एवोपदशं दन्तोष्ठेने. त्यादि सिद्धम् । समीपसमीपिनोरभेदविवक्षायां सामानाधिकरण्यम् । नवत्वसङ्ख्य. दन्तोष्ठसमूहाएकादशत्वसङ्ख्यदन्तोष्ठसमूहः इति वा बोधः। उपदशा दन्तोष्ठा इति । इतरेतरयोगद्वन्द्वोऽयम् । दशानां समीपे ये सन्ति ते उपदशा इति बहुव्रीहिः ।
For Private and Personal Use Only