SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [द्वन्द्वसमास विद्यायोनिसम्बन्धवाचिनामृदन्तानां द्वन्द्वे आनन स्यादुत्तरपदे परे । होतापोतारौ। होतृपोतृनेष्टोद्गातारः। मातापितरौ । 'पुत्रेऽन्यतरस्याम्' (सू ९८०) इत्यतो मण्डूकप्लत्या 'पुत्रे' इत्यनुवृत्तेः पितापुत्रौ। (६२२) देवताद्वन्द्वे च ६।३।२६॥ इहोत्तरपदे परे आनङ् । मित्रावरुणौ । 'वायुशब्दप्रयोगे प्रतिषेधः' (वा ३९०५)। अग्निवायू-वाय्वग्नी । पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेद ब्रह्मप्रजापती इत्यादौ नानछ । एतद्धि नैकहविर्भागित्वेन श्रुतम् , नापि लोके नव एकादश वेत्यर्थः । बहुव्रीहेरेवाबानुप्रयोगः समानलिङ्गवचनत्वात् इति भाष्यम् । .. पानद्धृतो द्वन्द्वे। विद्यायोनिसम्बन्धवाचिनामिति । विद्यासम्बन्धवाचिनां योनिसम्ब न्धवाचिनां चेत्यर्थः । ऋतो विद्यायोनिसम्बन्धेभ्यः' इत्यतस्तदनुवृत्तेरिति भावः । ऋदन्तानामिति । बहुत्वे व्यत्ययेन 'ऋतः' इत्येकवचनम् । अदन्तसर्वावयवकानामि. त्यर्थः। ऋत इत्यनुवर्तमाने पुनः ऋत इत्युक्तिः एतदथेति भावः । उत्तरपदे परे इति । 'अलुगुत्तरपदे' इत्यधिकारादिति भावः । होतापोताराविति । होता च पोता चेति वि. ग्रहः । विद्याद्वारकैकयज्ञत्विक्त्वकृतः सम्बन्धः । आनङि डकार इत्, अकार उच्चार• णार्थः, 'डिच्च' इत्यन्तादेशः, नलोपः, नकारस्तु रपरत्वनिवृत्त्यर्थ इति भाष्ये स्पष्टम् । होतृपोत्रिति । अत्र होतृशब्दस्य पोतृशब्दस्य च नाना , नेष्टुशब्देन व्यवधानात् उत्त. रपदपरकत्वाभावात् । तथाच नेष्टुशब्दस्यैवानङ् । उत्तरपदेन तु न पूर्वपदमाक्षिप्यते, समर्थसूत्रे नेष्ट्रशब्दस्याऽऽनङदर्शनात् । अथ योनिसबन्धमुदाहरति-मातापितराविति । पितृपितामहाः इत्यादौ तु नानङ् । ऋदन्तसर्वावयवकत्वाभावादिति भावः । तर्हि पितापुत्राविति कथमित्यत आह-पुत्रेऽन्यतरस्यामिति । 'ऋतो विद्यायोनिसम्बन्धेभ्यः इत्यत्र 'विभाषा स्वस्पत्योः' इत्यत्र च मध्यऽसम्बन्धादाह--मण्डूकेति । अनुवृतेरिति । नच तातपुत्रावित्यत्रापि स्यादिति वाच्यम् , दन्तस्य पुत्रे परे आनङ् स्यादिति वाक्यभेदेन व्याख्यानात् । देवताद्वन्द्वे च । मित्रावरुणाविति । इह दन्तत्वाभावात् पूर्वेणाप्राप्ते विधिरयम् । वायुशब्देति । वायुशब्दस्य पूर्वपदत्वेनोत्तरपदत्वेन वा प्रयोगे सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः। ननु पूर्वसूत्रात् द्वन्द्वग्रहणे अनुवर्तमाने पुनः द्वन्द्वग्रहणं व्यर्थमित्यत आह-पुनरिति । निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचकशब्दग्रहणार्थमित्यर्थः । तेनेति । प्रसिद्धसाहचर्यग्रहणेनेत्यर्यः। एतदिति । एतत् ब्रह्मप्रजापतियुगलं हविर्भागि. त्वेन न वेदे प्रसिद्धमित्यर्थः । नापि लोके इति । प्रौढिवादमात्रमेवेदम् , 'वेदे ये सहनिपनिर्दिष्टाः इत्येव भाष्ये दर्शनात् , लोकप्रसिद्धसाहचर्यग्रहणे पार्वतीपरमेश्वरावित्या. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy