________________
Shri Mahavir Jain Aradhana Kendra
प्रकरणम् ३ ]
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बालमनोरमासहिता ।
४३
ति, उकारस्य विधीयमानस्य पदचरमावयवत्वात् । एवं च पदान्तविधावित्यस्य एषो यन् इत्येतदुत्वविषये उदाहरणम् । सुलोपविषये तु प्रत्युदाहरणमिति भाष्ये स्पष्टम् । भाष्यप्रदीपोद्द्योते स्पष्टतरमेतत् ।
पदान्तविधौ कानि सन्तीत्याद्युदाहरणमनुपदमेव मूले स्पष्टीभविष्यति । द्विवंचने सुध्य् इत्युदाहरणम् । नचेह द्वित्वे कर्तव्ये यकारस्य स्थानिवद्भावविरहेऽपि तन्निषेधे स्थानिवद्भावः स्यादेवेति वाच्यम्, अनचि चेति द्वित्वस्यानैमित्तिकतया तद्विषये यकारस्थानिवद्भावस्यानपेक्षितत्वेन तत्र तन्निषेधस्य वैयर्थ्यापत्त्या द्विर्वचनशब्देनात्र अचि नेति द्वित्वनिषेधस्यैव विवक्षितत्वादिति भावः । वरे यथा - यायावरः । 'यश्च यs' इति याधातोर्यङन्ताद्वरच् । सन्यडोरिति द्वित्वम् । यायाय वरः इति स्थिते अतो लोप इति योऽकारस्य लोपः । लोपो व्योरिति यकारलोपः । अत्र अजाद्यार्धधातुकमाश्रित्य "आतो लोप इटि च' इत्यकारलोपे कर्तव्ये अल्लोपो न स्थानिवत् । यलोपे यथा- यातिः । याधातोर्यङि द्वित्वं क्तिच् यायाय ति इति स्थिते, अतो लोपः, लोपो व्योरिति यलोपः, अल्लोपस्य स्थानिवत्त्वादातो लोपः, लोपो व्योरिति यलोपः, यातिरिति रूपम् । अत्र अल्लोपो यलोपे कर्तव्ये न स्थानिवत् । न च वाय्वोरित्यत्रापि लोपो व्योरिति यलोपे कर्तव्ये उकारादेशस्य वकारस्य स्थानिवत्त्वनिषेधः स्यादिति वाच्यम्, स्वरदीर्घयलोपेषु लोप एवाजादेशो न स्थानिवदिति वार्तिके परिगणनात् इह च वकारस्य लोपरूपत्वाभावात् । स्वरविधौ यथा- - चिकीर्षकः । चिकीर्ष इति सन्नन्तात् ण्वुल् । अकादेशः । सनोऽकारस्य 'अतो लोपः' । अत्र ईकारस्य लितीत्युदात्तत्वे कर्तव्ये अल्लोपो न स्थानिवत् । यद्यपि ईकारः अल्लोपस्थानीभूतादकारान्नाव्यवहितपूर्व इति स्थानिवद्भावस्य प्राप्तिरिह नास्ति । तथाप्यस्मादेव ज्ञापकात् पूर्वत्वं व्यवहिताव्यवहितसाधारणम् । तत्प्रयोजनं तु पूर्वसूत्र एवोक्तम् ।
1
सवर्णविधौ यथा - शिड्ढ । शिष् इति धातोः रौधादिकाल्लोण्मध्यमपुरुषैकवचनम् । सिप श्नम् । शिनष् सि । हित्वम् । धित्वम् । ष्टुत्वम् । षस्य जश्त्वं डकारः । शिनढि | इनसोरल्लोपः । नश्चापदान्तस्येत्यनुस्वारः । अनुस्वारस्य ययीति तस्य परसवर्णः णकारः शिण्डूढि इति रूपम् । अत्र परसवर्णे कर्तव्ये अल्लोपो न स्थानिवत् । वस्तुतस्तु सवर्णविधौ नेदमुदाहरणम् । श्नमकारस्य लोपोऽत्र अजादेशः । तत्स्थानीभूतः श्नमकारः एव । तस्मिन् सति नकारस्यानुस्वारप्रसक्तिरेव नास्ति । तथा चानुस्वारस्य स्थानीभूतादचः पूर्वत्वेन कदाप्यदृष्टत्वात्तस्य परसवर्णे कर्तव्ये अचः परस्मिन्नित्यल्लोपस्य स्थानिवत्त्वं न प्रसक्तमिति किं तत्प्रतिषेधेन । यत्तु तत्वबोधिन्याम् अनुस्वारस्य स्थानिभूतो नकारः इनमकारात् पूर्वत्वेन दृष्ट इति तत्स्थानिकानुस्वारस्यापि तत्पूर्वत्वेन दृष्टत्वं स्थानिद्वारापि पूर्वत्वाभ्युपगमादित्यु -
For Private and Personal Use Only