________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ अच्सन्धि
-
दृष्टस्य विधौ कर्तव्ये । इति यणः स्थानिवद्भावे(१) प्राप्ते । (५१) न पदान्तद्विव. चनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्वविधिषु ११५८॥ पदस्य चर. यन्न भवति तदादेशेऽपि न भवतीत्येवमशास्त्रीयस्यापि कार्याभावस्य अतिदेशोभवति। तत्राद्ये वनश्चेत्युदाहृतमेव, तत्र 'न सम्प्रसारणे सम्प्रसारणामिति निषेधकार्यस्य शास्त्रीयत्वात् द्वितीये तु गणयतीत्युदाहरणम् । गणसंख्यान इति चुरादौ अदन्तधातुः । तस्माणिच् । अतो लोपः। तिप शपणेर्गुणः अयादेशः गणयतीति रूपम् । अत्र णिचि परतः उपधाभूतस्य गकारादकारस्य "अत उपधायाः" इति न भवति प्रकृतसूत्रेणाल्लोपस्य स्थानिवद्भावात् । अकारे स्थानिनि सति गकारादकारस्य उपधात्वभङ्गादुपधावृद्धिर्न प्रवृत्तिमर्हति । वृद्धयभावस्याशास्त्रीयत्वेऽपि अल्लोपे अतिदेशात् । न चात्र गकारादकारस्य स्थान्यकारान्न पूर्वत्वम् । णकारेण व्यवधानादिति वाच्यम् , पूर्वत्वम् ह्यत्र व्यवहिताव्यवहितसाधारणम् उत्तरसूत्रे स्वरे निषेधाल्लिङ्गात्। तच्च तत्रैव स्पष्टीभविष्यतीत्यलम् ।। ____ इति यण इति । अनेन सूत्रेण सुध् य इत्यत्र धकारस्य द्वित्वनिषेधे कर्तव्ये ईकारस्थानिकस्य यकारस्य स्थानिवद्भावे प्राप्ते तत्प्रतिषेधसूत्रमारभ्यत इत्यर्थः । न पदान्त. द्विर्वचन । स्थानिवदादेश इति अचः परस्मिन्निति चानुवर्तते । परनिमित्तकोऽजादेशो न स्थानिवदित्यन्वयः । पदान्तश्च द्विर्वचनं च वरे च यलोपश्च स्वरश्च सवर्णश्च अनु. स्वारश्च दीर्घश्च जश्च चर्चेति द्वन्द्वः । तेषां विधयः-विधानानि । कर्मणि षष्ट्या समासः । ततश्च पदान्तादिषु विधेयेषु इति लभ्यते । वर इत्यनेन वरे योऽजादेशः स विवक्षितः । आर्षो द्वन्द्वः । सप्तम्या अलुक्च । विधिशब्दः प्रत्येकमन्वेति-पदान्त. विधौ द्विर्वचनविधावित्यादि । पदस्यान्तः चरमावयवः । पदान्तस्य विधाने पदान्त. कर्मके विधाने पदस्य चरमावयवे कार्य द्विवचनादौ च का इति यावत् । तदाहपदस्य चरमेत्यादिना । पदान्तस्य स्थाने विधाविति तु न व्याख्यातम् , तथा सति एषो यन् हसतीत्यसिद्धेः । तथाहि-एषः यन् इति छेदः । इण्धातोर्लटः शतरि शपि लुकि इकारस्य इणो यणिति यण अत्र एतत्तदोरिति सुलोपो न भवति, तस्य हलि परतो विधानात् इह च तस्मिन् कर्तव्ये इकारस्थानिकस्य यकारस्य स्थानिवद्रावे. नाचत्वात्। न च न पदान्तेति निषेधः शड्यः, यो विधीयमानः पदस्य चरमावयवः सम्पद्यते तत्रैव तन्निषेधात् इह च विधेयस्य सुलोपस्य पदानवयवत्वात् । पदान्तस्य स्थाने विधाविति व्याख्याने तु इह यकारस्य स्थानिवद्भावो न सिध्येत् लोपस्य पदान्तसकारस्य स्थाने विधानात् । अत्र "हशि च" इत्युत्वे तु कर्तव्ये यकारो न स्थानिव.
(१) स्थानिवद्भावे द्वित्वनिषेधप्रयोजके इत्यादौ शेषः ।
For Private and Personal Use Only