________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ३ ]
बालमनोरमासहिता ।
रस्य स्थानिवद्भावेनाच्वमाश्रित्य 'अनचि' (सू ४८) इति द्वित्वनिषेधो न शङ्कयः, 'अनल्विधौ ' इति तन्निषेधात् । (५०) अचः परस्मिम्पूर्वविधौ १।१।५७ ॥ अविध्य 'मिदम् । परनिमित्तोऽजादेशः स्थानिवत्स्यात् स्थानिभूतादचः पूर्वत्वेन रस्य स्थानिवद्भावेन ईकारधर्मकत्वादायादेशो न स्यात् ईकारस्य आयादेशाभावादिति वाच्यम्, इह हि स्थानिप्रयुक्तं यत् कार्यं शास्त्रीयं तदेवातिदिश्यते । ईकारस्य च आयादेशभावो न शास्त्रविहित इति न तस्य ईकारस्थानिके ऐकारे अतिदेश इत्यास्तां तावत् । श्रनेनेति । उदाहृतेन स्थानिवत्सूत्रेण इह सुध्य् इत्यत्र ईकारस्थान - कस्य यकारस्य स्थानिवद्भावेन अच्कार्यकारित्वमाश्रित्य अचि न द्वित्वमित्यर्थकेन अनचीत्यनेन धकारस्य द्वित्वनिषेधो न शङ्कनीय इत्यर्थः । कुत इत्यत आह-अनविधाविति तन्निषेधादिति । स्थानिवत्व निषेधादित्यर्थः । यकारादेशस्थानीभूतो योऽल् ईकारः तद्वतमत्वं यकारे आश्रित्य प्रवर्तमानस्य यकार द्वित्वनिषेधस्य स्थान्यलाश्रयत्वादिति भावः ।
I
ननु सुधू य् इत्यत्र मास्तु 'स्थानिवद्' इति सूत्रेण स्थानिवद्भावः । तदुत्तरसूत्रेण तु स्थानिवत्वं स्यादेवेति शङ्कामुद्भावयिष्यन् तथाविधमुत्तरसूत्रमाह- - अचः परस्मिन् । स्थानिवत्सूत्रेणैव सिद्धे किमर्थमिदं सूत्रमित्यत आह- श्रविध्यर्थमिति । अलाश्रयविधावपि स्थानिवद्भावार्थमित्यर्थः । तेन वत्रश्चेति सिध्यति । ओ वश्चू च्छेदने । लिटि तिपि द्वित्वम् । लिट्यभ्यासस्येति अभ्यासे रेफस्य सम्प्रसारणम् ऋकारः । पूर्वरूपम् । उरदत्वम् । रपरत्वम् । हलादिश्शेषः । तत्राभ्यासे वकारस्य पुनः सम्प्रसारणं न ; ऋकारस्थानिकस्य उरदत्वस्य स्थानिवद्भावेन सम्प्रसारणतया 'न सम्प्रसारणे सम्प्रसारणम्' इति निषेधात् । पूर्वसूत्रेण त्वन्त्र स्थानिवद्भावो न सम्भवति, सम्प्रसारणनिषेधस्य स्थान्यलाश्रयत्वादिति भावः । पूर्वसूत्रादिह स्थानिवदादेश इत्यनुवर्तते । अच इत्येतदादेश इत्यनेनान्वेति अच आदेश इति । परस्मिन्निति सतिसप्तमी । ततश्च परनिमित्तिक इति लभ्यते । तच्चादेशविशेषणम् । तदाह - परनिमित्तोऽजादेशः स्थानिवत्स्यादिति । विधीयत इति विधिः कार्यम् । पूर्वस्य विधिः पूर्वविधिः । पूर्वत्वं च यद्यपि सावधिकम् । त्रयं चात्र संनिहितम् -स्थानी आदेशः परनिमित्तं चेति । तत्र स्थानी तावन्नावधिर्भवितुमर्हति तस्यादेशेनापहारात् । नाप्यादेशः, नापि परनिमित्तम्, वैयाकरण इत्यत्र इकारस्थानिकयणादेशात् तत्परनिमित्तादाकाराच्च पूर्वस्य न य्वाभ्यामित्यैकारस्य आयादेशे कर्तव्ये यणादेशस्य स्थानिवद्वावेनाच्त्वापत्तेः । तथापि स्थान्यपेक्षयैवात्र पूर्वत्वं विवक्षितम्, स्थानिन आदेशेनापहृतत्वेऽपि भूतपूर्वगत्या तत्पूर्वत्वस्य सम्भवात् । तदेतदाह – स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्य इति । अत्र स्थानिनि सति यद्भवति तदादेशेऽपि भवति,
I
For Private and Personal Use Only
४१