SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् २९ ] बालमनोरमासहिता । ૫૧ `न्तेभ्योऽण्यस्यात् । कण्वो गर्गादिः । काण्ण्यस्य छात्राः काण्वाः । (१३३३) इञश्च ४ । २ । १२२ ॥ गोत्रे य इम् तदन्तादण्स्यात् । दाक्षाः । गोत्रे किम् । सोतङ्गमेरिदं सौतमीयम् । गोत्रमिह शास्त्रीयं, न तु लौकिकम् । तेनेह न । पाणिनीयम् । (१३३४) न द्व्यचः प्राच्यभरतेषु ४ । २ । ११६ ॥ 'इन' ( सू १३३३ ) इत्यणोऽपवादः । प्रौष्ठीयाः । काशीयाः । भरतानां प्राच्यत्वेऽपि पृथगुपादानम् अन्यत्र प्राच्यग्रहणे भरतानामग्रहणस्य लिङ्गम् । (१३३५) वृद्धिर्यस्याचामादिस्तबृद्धम् १ | १ | ७३ ॥ यस्य समुदायस्याचो मध्ये आदिवृद्धिस्तद्वृद्धसंज्ञं स्यात् । (१३३६) त्यदादीनि च १ । १ । ७४ ॥ वृद्धसंज्ञानि स्युः । (१३३७) वृद्धाच्छः ४ । २ । ११४ ॥ शालीयः । मालीयः । तदीयः । (१३३८) एङ प्राचां देशे १।११७५ ॥ एड् यस्याचामादिस्तद्वृद्धसंज्ञं वा 1 I नैलीनक इति । निलीनकनाम्नि ग्रामे भव इत्यर्थः । कण्वादिभ्यो गोत्रे । काव्यस्येति । कण्वस्य गोत्रापत्यं काण्व्यः । गर्गादियञ् । काण्व्यस्य छात्रा इत्यर्थे अनेन छापवादोsr | 'यस्येति च' इत्यकारलोपः । 'आपत्यस्य च' इति यकारलोपः काण्वा इति रूपम् । इञश्च । दाक्षा इति । दक्षस्य गोत्रापत्यं दाक्षिः । अत इञ् । दाक्षेः छात्रा इति विग्रहः । सौतङ्गमेरिदमिति । सुतङ्गमस्य निवासः सौतङ्गमिः । 'सुतङ्गमादिभ्य इज्’ सौतङ्गमेरिदमित्यर्थं वृद्धात् छः, न त्वण्, इजो गोत्रार्थकत्वाभावात् । गोत्रमिह शास्त्रीयमिति । अपत्याधिकारादन्यत्र यद्यपि लौकिकमेव गोत्रमिति सिद्धान्तः । तथापि ह सूत्रयेsपि शास्त्रीयमेव गोत्रं गृह्यते, 'यूनि लुक्' इति सूत्रभाष्ये तथोक्कत्वादिति भावः । पाणिनीयमिति । पणिनो गोत्रापत्यं पाणिनः । तस्यापत्यं युवा पाणिनिः । तस्येदं पाणिनीयम् । वृद्धात् छः । अण् तु न, पाणिनिशब्दस्य युवप्रत्ययान्तत्वादिति भावः । न द्वयचः । प्राच्येषु ( परेषु ) भरतेषु च गोत्रेषु विद्यमानादिनन्तात् द्वयचोऽण् न भवतीत्यर्थः । इञश्चेश्यणोऽपवादः । प्रतिषेध इत्यर्थः । प्रौष्ठीया इति । प्रोष्ठस्य गोत्रापत्यं प्रौष्ठिः, तस्य छात्रा इत्यर्थः । काशीया इति । काशस्य गोत्रापत्यं काशिः, तस्य छात्रा इत्यर्थः । अणो निषेधे वृद्धात् छः । लिङ्गमिति । तेन औद्दालकिः पिता, औद्दालकायनः पुत्रः इत्यत्र 'इञः प्राचाम्' इति भरतेभ्यो लुड् न भवति । I वृद्धिर्यस्य । अचामिति बहुत्वमनेकत्वोपलक्षणम् । तेन शालाशब्दस्यापि वृद्धस्वं सिध्यति । व्यपदेशिवत्वेन ज्ञाशब्दस्यापि वृद्धत्वम् । त्यदादीनिच । शेषपूरणेन सूत्रं व्याचष्टे - वृद्धसम्ज्ञानि स्युरिति । आदेरचो वृद्धिसञ्ज्ञकत्वाभावादारम्भः । वृद्धाच्छः । वृद्धसज्ञकात् छः स्यात् जातादिष्वर्थेषु । अणोऽपवादः । शालीय इति । शालायां जात इत्यादिरर्थः । एवं तदीयः । एङ् प्राचां देशे । देशविशेषनाम्नश्वेदेङादिरेव वृद्ध For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy