SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७५० सिद्धान्तकौमुदी [तद्धिते शैषिक - स्तिकं वक्ष्यते । (१३२७) तीररूपोत्तरपदादयौ ४।२। १०६ ॥ यथासङ्ख्येन । काकतीरम् । पाल्वलतीरम् । शैवरूप्यम् । तीररूपान्तात् इति नोक्तम् । बहुचपूर्वान्मा भूत् । बाहुरूपम् । (२३२८) दिक्पूर्वापदादसंज्ञायां घः४।२।१०७॥ अणोऽपवादः । पौवंशालः । असंज्ञायाम् किम् । संज्ञा. भूतायाः प्रकृतेर्मा भूत् । पूर्वेषुकामशम्या भवः पूर्वेषुकामशमः । 'प्राचा प्रामनग. राणाम्' (सू १४००) इत्युत्तरपदवृद्धिः । (१३२६) मद्रेभ्योऽञ् ४ा२।१०८ दिक्पूर्वपदात् इत्येव । 'दिशोऽमद्राणाम्। (सू १३९९ ) इति मद्रपदासादादि. वृद्धिः। पौर्वमद्रः । आपरमद्रः। (१३३०) उदीच्यग्रामाच बदचोऽन्तो. दात्तात् ४ । २ । १०६ ॥ अञ् स्यात् । शैवपुरम् । (१३३१) प्रस्थोत्तर पदपलद्यादिकोपधादण ४ । २ । ११० । माहिकिप्रस्थः । पालदः । नेली. नकः । (१३३२) कण्वादिभ्यो गोत्रे ४।२। १११ ॥ एभ्यो गोत्रप्रत्यया श्वः' इत्यमरः । पक्षे इति । 'श्वसस्तुट् च' इति उनि तस्य इकादेशे तुडागमे 'द्वारा. दीनां च' इत्यैजागमे शौवस्तिकमित्यपि वक्ष्यमाणं रूपमित्यर्थः। तीररूप । तीरोत्तरपदात् रूपोत्तरपदाच्च क्रमादयश्चेत्यर्थः । काकतीरमिति । ककतीरे भवमित्यर्थः । पाल्बलतीरमिति । पल्वलतीरे भवमित्यर्थः । शैवरूप्यमिति। शिव. रूपे भवमित्यर्थः । रूप्योत्तरपदेति क्वचित्पाठः। तथा सति ज्यप्रत्यये 'यस्येति चा इत्यकारलोपे द्वियकारं रूपम् । बाहुरूपमिति । 'विभाषा सुपो बहुच पुरस्तात्तु' इति बहुपूर्वस्य रूपान्तत्वेऽपि तदुत्तरपदकत्वाभावान्न ज्य इति भावः । दिक्पूर्वपदात् । पञ्चम्यर्थे सप्तमी । असज्ञाभूतात् दिक्पूर्वपदकात् नः स्यादित्यर्थः। पौर्वशाल इति । पूर्वस्यां शालायां भव इत्यर्थे 'तद्धितार्थ' इति समासात् जः । मद्रेभ्योञ्। इत्येवेति । दिक्पूर्वात् मद्रशब्दादमित्यर्थः । पर्युदासादिति। उत्तरपदवृद्धः पर्युदासे सति आदि. वृद्धिरित्यर्थः । बहुवचनाज्जनपदवाचिन एव ग्रहणम् । पौर्वमद्र इति । पूर्वेषु मद्वेषु भव इत्यर्थः । उदीच्यग्रामाच्च । शैवपुरमिति । उत्तरदेशे शिवपुरं नाम ग्रामविशेषः। तत्र भव. मित्यर्थः । समासस्येत्यन्तोदात्त: शिवपुरशब्दः । बह्वचः किम् । ध्वनी ( ङीषन्तो) नाम उत्तरदेशे ग्रामविशेषः । तत्र भवः ध्वाजः । अन्तोदात्तात्किम् । शार्करीधानम् । कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यैवावस्थानात् मध्योदात्तोऽयम् । प्रस्थोत्तरपद । प्रस्थोत्तरपदात् पलद्यादिभ्यः कोपधाच्च अणित्यर्थः। पलदिः आ. दिर्येषामिति विग्रहः । उदीच्यग्रामलक्षणस्य अमोऽपवादः। माहिकिप्रस्थ इति । महि. किंप्रस्थनाम्नि ग्रामे भव इत्यर्थः। पालद इति । पलदिनाम्नि ग्रामे भव इत्यर्थः। For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy