SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ८] बालमनोरमासहिता। १८१ मिच्छतीति क्षामीः । प्रस्तीममिच्छतीति प्रस्तीमीः । एषां सिसोयेण् । नत्वमत्वयोरसिद्धत्वात् 'ख्यत्यात्-' (सू २५५) इत्युत्वम् । लून्युः। क्षाम्युः । प्रस्ती. म्युः। शुष्कीयतेः क्वि । शुष्कीः । पक्कीः । इया। शुष्कियो। शुक्रियः । उसि. सोः शुष्क्रियः इत्यादि । इति ईदन्ताः ॥ शम्भुईरिवत् । एवं विष्णुवायुभान्वादयः । (२७४) तृज्वत्कोष्टुः ७१५॥ क्रोष्टुस्तृजन्तेन तुल्यं वर्तते, अस. म्बुद्धौ सर्वनामस्थाने परे । क्रोष्टुशब्दस्य स्थाने क्रोष्टशब्दः प्रयोक्तव्य इत्यर्थः । (२७५) ऋतो डिसर्वनामस्थानयो। ७३११०॥ छौ सर्वनामस्थाने च परे मत्वम् । क्यजादि पूर्ववत् । प्रस्तीमीरिति । 'स्त्यै ष्टय शब्दसधातयो क्तः । 'आदेचः' इत्यास्वम् । 'प्रस्त्योऽन्यतरल्याम्' इति मः। 'स्त्यः प्रपूर्वस्या इति सम्प्रसारणम् । 'सम्प्रसारणाच्च' इति पूर्वरूपम् । 'हला' इति दीर्घः। क्यजादि पूर्ववत् । सखी सुतीत्यादिवद्रूपाणि । उसिसोर्यणिति । 'एरनेकाचः' इत्यनेनेति शेषः । असिद्धत्वादि. त्यनन्तरं ज्योत् परत्वादिति शेषः । शुष्कीयतेरिति । 'इश्तिपो धातुनिर्देशे' इति शितपा निर्देशोऽयम् । शुषधातोः क्तः शुष्कः । 'शुषः कः' इति कत्वम् । शुष्कमात्मन इच्छतीत्यर्थे क्यजन्तात् शुष्कीयधातोः क्विपि शुष्कीरिति रूपमित्यर्थः । अड्यन्तत्वान्न सुलोपः। सखी सुतीत्यादिशब्दवत् शुष्कीशब्दः । शुष्कियावित्यादि । संयोगपूर्वत्वान्न यण । किं तु इयङिति विशेष इति भावः । उसिङसोः शुष्कियः इति । न च कत्वस्यासिद्धत्वात् ख्यत्यात् परत्वादुत्वं शङ्खयम् , इयडादेशेसति कृतयणादेशत्वामावात इति भावः । इति ईदन्तप्रकरणम् ॥ अथ उदन्ता निरूप्यन्ते। शम्मुर्हरिवदिति । तत्र पूर्वसवर्णदीर्घ उकारः, गुणस्तु ओकारः, अव् इत्यादयो विशेषास्त्वान्तरतम्यात् सङ्गता इति भावः । 'क्रुश आह्वाने, रोदने च' इति धातोः सितनिगमिमसिसच्यविधाकृशिभ्यस्तुन्' इति तुन्प्रत्यये 'नश्च' इति शस्य षकारे ष्टुत्वेन टकारे च क्रोष्टुशब्दः । क्रुशधातोः कर्तरि तृचि तु क्रोष्ट्रशब्दः। द्वावपि सगालवाचिनौ । तयोरविशेषेण सर्वत्र प्रयोगे प्राप्ते विशेष दर्शयितुमाहतृज्वकोष्टुः। प्रत्ययग्रहणपरिभाषया तृच् इति तृजन्तं गृह्यते। तेन तुल्यम्' इति तृतीयान्ताद्वतिः। 'इतोऽत् सर्वनामस्थाने' इत्यतः सर्वनामस्थाने इति 'सख्युरसम्बुद्धौ'इत्यतोऽसम्बुद्धाविति चानुवर्तते । तदाह-क्रोष्टस्तृजन्तेनेत्यादिना । 'कार्यरूपनिमित्तार्थशाखतादात्म्यशब्दिताः। व्यपदेशश्च सप्तैतानतिदेशान् प्रचक्षते ।' इति अतिदेशाः सप्त । तत्र प्राधान्यादिह तृजन्तरूपमेव अतिदिश्यते । तच्च न कर्तृ भर्तृ इत्यादि सृजन्तरूपम् । किन्तु क्रोष्ट इत्येव तृजन्तरूपम् अतिदिश्यते । क्रुशधातोरुपस्थितत्वात् अर्थत आन्तर्याच्च इत्यभिप्रेत्य फलितमाह-क्रोष्टुशब्दस्य स्थाने इति । निमित्तादी. नामुदाहरणानि तु तत्र तत्र प्रदर्शयिष्यामः । क्रोष्ष्ट्र स इति स्थिते । अतो डि । 'हस्व For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy