________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५०४
सिद्धान्तकौमुदी
[ तत्पुरुषसमास
1
गुडसम्मिश्रा धानाः ‘अवरस्योपसख्यानम्' ( वा १२५६ ) मासेनावरी मासावरः । (६६४) कर्तृकरणे कृता बहुलम् २|१|३२|| कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा त्रातो हरित्रातः । नखैर्भिन्नो नखभिन्नः । 'कृद्ग्रहणे गतिकारक पूर्वस्यापि ग्रहणम्' ( प २९ ) नखनिर्भिन्नः । कर्तृकरणे इति किम् । भिक्षाभिरुषितः । तावेषा तृतीया । बहुलग्रहणं सर्वोपाधिव्यभिचारार्थम् । तेन 'दात्रेण लूनवान्' इत्यादौ न । कृता किम् । काष्ठैः पचतितराम् । ( ६६५) कृत्यैरधिकार्थवचने २|१|३३ ॥ स्तुतिनिन्दाफलकमर्थवादवचनमधिकाथवचनम् । तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राभवत् । वातच्छेयं तृणम् । काकपेया नदी । (६६६) अन्नेन व्यञ्जनम् २ | २|३४|| संस्कारकद्रव्यवाचकं तृतीयान्तमनेन प्राग्वत् । दध्ना ओदनो दध्योदनः । इहान्तर्भूतोप सेकक्रियाद्वारा सामर्थ्यम् । ग्रहणं विज्ञायत इत्यर्थः । मासेनावर इति । मासेन पूर्व इत्यर्थः । न्यून इत्यथें ऊनाथकत्वादेव सिद्धम् ।
1
कर्तृकरणे । कर्ता च करणं चेति समाहारद्वन्द्वात् सप्तमी । तृतीयेत्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । कृतेत्यपि तथैव । तदाह - कर्तरि करणे चेति । प्राग्ददिति । समस्यते स तत्पुरुष इत्यथः । इह कृद्ग्रहणेन क्तप्रत्यय एव गृह्यते, बहुलग्रहणादिति भाष्यम् । अतः कान्तमेवोदाहरति- हरिणा त्रात इति । पालित इत्यर्थः । ननु कृदन्तस्य समर्थविशेषणत्वेऽपि समासप्रत्यय विधौ तदन्तविधिप्रतिषेधान्नखनिभिन्न इत्यत्र न स्यादित्यत आह- कृद्ग्रहणे इति । परिभाषेयम् ' गतिरनन्तरः' इति सूत्रे भाष्ये स्थिता । पचतितरामिति । अतिशयेन पचतीत्यर्थः । 'अतिशायने' 'तिङश्च ' इत्यनुवृत्तौ 'द्विवचनविभज्य' इति तरप् । 'किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे' इत्याम् । अत्र तद्धितान्तेन समासनिवृत्त्यर्थं कृद्ग्रहणमिति भावः । कृत्यैरधिकार्थवचने । श्रर्थवादवचनमिति । अविधायको क्तिरित्यर्थः । वातच्छेद्यं तृणमिति । वातेन छेद्यमिति विग्रहः । छेत्तुं योग्यमित्यर्थः । 'ऋहलोर्ण्यत्' इति कृत्यप्रत्ययः । कोमलत्वेन स्तुतिः, दुर्बलत्वेन निन्दा वा । काकपेयेति । 'अचो यत्' इति यत् 'ईद्यति' इति ईत्त्वं गुणः । अत्र पूर्णाम्भस्त्वेन स्तुतिः, अल्पाम्भस्त्वेन निन्दा वा । अन्नेन व्यञ्जनम् । व्यञ्जनशब्द व्याचष्टे - संस्कारेति । संस्क्रियते गुणविशेषवत्तया क्रियते अनेनेति संस्कारः, उपसेकादिसाधनं दध्यादि, तद्वाचकमित्यर्थः । श्रनेनेति । अन्नम् ओदनः । तद्वाचकशब्देनेत्यर्थः । 'भिस्सा स्त्री भक्तमन्धोऽन्नम्' इति कोशः । दध्ना श्रोदनो दध्योदन इति । नन्विह दनेति करणत्वस्य उपसिक्तपदापेक्षत्वात् असामर्थ्यात् कथमिह समास इत्यत आह- अन्तर्भूतेति । उपसेकक्रियां विना दध्नः अन्नसंस्कारकत्वानुपपत्या दना
।
For Private and Personal Use Only