SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ३४] बालमनोरमासहिता। ३१ - नागतकालः । मासमधीष्टो मासिकोऽध्यापकः । मासं मृतः मासिकः कर्मकरः । मासं भूतो मासिको व्याधिः । मासं भावी मासिक उत्सवः । (१७४५) मासाद्वयसि यत्खौ ५।११॥ मासं भूतो मास्यः-मासीनः । (१७४६) द्विगोर्यप् ५।२॥ मासाद्वयसीत्यनुवर्तते । द्वौ मासौ भूतो द्विमास्यः । (१७४७) षण्मा. सापण्यच्च ५॥१॥३॥ वयसि इत्येव । यबप्यनुवर्तते, चाञ्। षण्मास्यःपाण्मास्यः-पाण्मासिकः । (१७४८) मवयसि ठंश्च ५॥१॥४॥ चाण्ण्यत् । षण्मासिको व्याधिः-पाण्मास्यः । (१७४६) समायाः खः ॥५॥ समाम. धोष्टो मृतो भूतो भावी वा समीनः । (१७५०) द्विगोर्वा ५॥१॥६॥ समायाः खः इत्येव । तेन परिजय्य- (सू १७५७ ) इत्यतः प्राङनिर्वृत्तादिषु पन्चस्वर्थेषु प्रत्ययाः । द्विसमीनः-द्वैसमिकः । (१७५१) राज्यहःसंवत्सराच्च ।।७॥ द्विगोः इत्येव । द्विरात्रीणः- द्वैरात्रिकः । द्वयहीनः- द्वैयहिकः । समासान्तविधेरनि. - 'कालाध्वनोः' इति द्वितीया । मासाद्वयसि । अत्र भूत इत्येवानुवर्तते, व्याख्यानात् । मासशब्दात् द्वितीयान्तात् भूत इत्यर्थे यत्खनौ स्तः वयसि गम्ये इत्यर्थः । द्विगोर्यप । अनुवर्तत इति । मासान्ताद्विगोभूत इत्यर्थे,यप् स्याद्वयसि गम्ये इत्यर्थः । पण्मासाएण्यच्च । वयसीत्येवेति । षण्मासशब्दात् भूत इत्यर्थे ण्यच्च स्याद्वयसि गम्ये इत्यर्थः । अत्र चकारात्सन्निहितस्य यपोऽनुकर्षणे ण्यधपावेव स्याताम् , नतु ठअपि । इष्यते तु ठमपि । तत्राह-यबप्यनुवर्तत इति । स्वरितत्वादिति भावः । तर्हि चकारः किमर्थ इत्यत आह-चामिति । तथाच ण्यत् यप् ठमिति त्रयः प्रत्ययाः फलिताः। अवयसि ठंश्च । षण्मासशब्दात् द्वितीयान्तान् भूते अवयसि ठन् च स्यादित्यर्थः । समायाः खः । मण्डूकप्लुत्या 'तमधीष्टो भृतो भूतो भावी' इति कृत्स्नमेव सूत्रम. नुवर्तते । समाशब्दाद्वितीयान्तात् अधीष्टादिष्वर्थेषु खः स्यादित्यर्थः। द्विगोर्वा । समायाः ख इत्येवेति । तथाच समान्तात् द्विगोद्वितीयान्तात् खो वा स्यात् पक्षे ठमिति फलितम् । 'अप्सुमनः समासिकतावर्षाणां बहुत्वं च' इति लिङ्गानुशासनसूत्रम् । 'हायनोऽस्त्री शरत्समाः' इत्यमरः । 'समां समां विजायते' इति सूत्रादेकवचनम. प्यस्ति । पञ्चस्विति । तेन निर्वृत्तम् तमधीष्टो भृतो भूतो भावीति पञ्चस्वित्यर्थः । एषां यथायोगमन्वयः । द्वैसमिक इति । खाभावे प्राग्वतीयष्ठम् । राज्यहः। द्विगोरित्ये. वेति । रात्रि, अहन् संवत्सर एतदन्तात् द्विगोनिर्वृत्तादिष्वथेषु खो वा स्यादित्यर्थः । पक्षे ठञ् । द्विरात्रीण इति । द्वाभ्यां रात्रिभ्यां निवृत्तः द्वे रात्री अधीष्टो भृतो भूतो भावी वेत्यर्थः । एवमग्रेऽपि यथायोगं ज्ञेयम् । द्वयहीन इति । द्वाभ्यां अहोभ्यां For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy