SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदी [कारक बोधयितुमिष्टः सम्प्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते हुते तिष्ठते शपते वा। ज्ञीप्स्यमानः किम् । देवदत्ताय ३लाघते पथि । (५७३) धाररुत्तम: ११४। ३५॥ धारयतेः प्रयोगे उत्तमणं उक्तसज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः उत्तमर्णः किम् । देवदत्ताय शतं धारयति प्रामे । (१७४) स्पृहेरीप्सितः। २४॥३६॥ स्पृहयतेः प्रयोगे इष्टः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । ईप्सितः किम् । पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं सज्ञा । प्रकर्षविवक्षायां तु पर. एषां प्रयोगे इत्यादिना । गोपी स्मरादिति । मन्मथमपीडावशात् गोपी आत्मस्तुत्या विर. हवेदनां कृष्णं बोधयतीत्यर्थः । कृष्णस्यैव स्तुत्यत्वे तु द्वितीयैवेत्याहुः । हनुते इति । सपत्न्यपनयनेन स्वाशयं कृष्ण बोधयतीत्यर्थः । तिष्ठते इति । गन्तव्यमित्युक्तऽपि स्थित्या स्वाशयं कृष्णं बोधयतीत्यर्थः । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदम् । शपते इति । उपालम्भेन स्वाशयं कृष्णं बोधयतीत्यर्थः । धारेरुत्तमर्णः । धारेरित्यनन्तरं प्रयोगे इत्यध्याहार्यम् । 'एङ् अवस्थाने इत्यस्य हेतुमण्ण्यन्तस्य धारेरिति निर्देशः । तदाह-धारयतेरिस्यादिना। अन्यस्वामिक द्रव्य नियतकाले पुनरर्पणबुद्धया गृहीतम् ऋणमित्युच्यते । तत्र ऋणस्य ग्रहीता अधमणः, ऋणस्यार्पयिता धनस्वामी उत्तमर्णः । प्रतिमासमशीतिभागादिवृद्ध्या । उत्तमम् अधिकतां प्राप्तम् ऋणं यस्येति विग्रहः । भक्तायेति । भक्तसम्बन्धी यो मोक्षः अपरि. मितनित्यसुखविशेषः तं धारयतीत्यर्थः। धरते मोक्षः, अवतिष्ठते इत्यर्थः । तं प्रेर. यति, धारयति, अवस्थापयतीति यावत् । पूजयन् हि भक्तः तुलसीदलादिद्रव्यं प्रयच्छति, तच्च गृह्णन् तुष्टो हरिः तत्प्रत्तद्रव्यं मोक्षदानेन निष्क्रीणाति । तदाहुः पौराणिका:'तोयं वा पत्रं वा यद्वा किञ्चित् समर्पितं भक्त्या। तहणं मत्वा देवो निःश्रेयसमेव निष्क्रय मनुते ।" इत्यादि। तथाचात्र भक्तस्य ऋणदातृत्वेन उत्तमर्णत्वात् सम्प्रदानत्वं सम्बन्धषष्ठ्यपवादः। स्पृहेरीप्सितः । 'स्पृह ईप्सायाम्। चुरादावदन्तः। ततः स्वाथें णिचि अल्लोपस्य स्थानिवत्त्वात् लघूपधगुणाभावे स्पृहिशब्दात् षष्ठ्येकवचनम् । प्रयोग इत्यध्याहा. र्यम् । तदाह-स्पृहयतेरित्यादिना। ननु पुष्पेभ्यः स्पृहयतीत्येव स्यात् , नतु पुष्पाणि स्हयतीत्यपि । उभयं त्विष्यते । तदाह-ईप्सितमात्र इति । यदा त्वीप्सितत्वस्यापि न विवक्षा, किं तु विषयतामात्रविवक्षा, तदा पुष्पाणां स्पृहयतीति साधु । 'कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च । इत्यादि-दर्शनात् । वाक्यदीये तु स्पृहयतियोगे कर्मसंज्ञायाः शेषषष्टयाश्चायमपवाद इति स्थितम् । हेलाराजोऽप्येवम् । तन्मते पुष्पाणि स्पृहयति पुष्पाणां स्पृहयतीत्यायसाध्वेवेत्यन्यत्र विस्तरः। For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy