SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् १९ ] बालमनोरमासहिता। पृ8 ५.४।११७॥ आभ्यो लोम्नोऽप्स्याद्बहुव्रीहौ । अन्तर्लोमः । बहिर्लोमः। (१६) मनासिकायाः संज्ञायां नसं चास्थूलात् ४।५।११८॥ नासिकान्ताबहुव्रीहेरच्स्यानासिकाशब्दश्च नसं प्राप्नोति न तु स्थूलपूर्वात् । (५७) पूर्वपदात्स. झायामगः ॥४३॥ पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । दुरिव नासिका यस्य द्रुणमः । खरणसः । अगः किम् । ऋचामयनम् ऋगयनम् । 'अगयनादिभ्यः' (सू १४५२) इति निपातनाण्णस्वाभावमाश्रित्य अगः इति प्रत्याख्यातं भाष्ये । अस्थूलात् किम् । स्थूलनासिकः । 'खुरख. राभ्यो वा नस्' ( वा ३३६३)। खुरणाः खरणाः । 'पक्षेऽजपोष्यते' । खुरणसः। तृशब्दादप , कारस्य यण, रेफः, टाप । पुष्यनेत्रा इति । पुष्यो नेता यासामिति विग्रहः । अन्तर्बहिर्त्यां च लोम्नः। अन्तर्लोन इति । अन्तः लोमानि यस्येति विग्रहः, अप, टिलोपः । एवं बहिलोमः । अन्नासिकायाः। अच् इति च्छेदः । नालिकाया इत्यस्य बहुव्रीहेविशेषणत्वात् तदन्तविधिमभिप्रेत्याह-नासिकान्तादिति । नसमित्यन. न्तरं प्राप्नोतीत्यध्याहार्यम् । उपस्थितत्वान्नासिकाशब्द इति लभ्यते । तदाहनासिकाशब्दश्च नसं प्राप्नोतीति । पूर्वपदात् । 'रषाभ्याम्' इत्यनुवृत्तम्। पूर्वपदशब्देन पूर्वपदस्थं लक्ष्यते। 'रषाभ्या. म्। इत्यनेन लब्धो रेफः षश्च प्रत्येकमन्वेति तदाह-पूर्वपदस्थान्निमित्तादिति । रेफष. कारात्मकादित्यर्थः । अग इति पञ्चम्यन्तम् । गकारभिन्नात्परस्येत्यर्थः । गकारात्प. रस्य नेति यावत् । तदाह -नतु गकारव्यवधाने इति । अनेन 'अट्कुप्वाइनुम्व्यवायेऽपि इत्यनुवृत्तिः सूचिता। अन्यथा अग इत्यस्य वैयर्थ्य स्यात । खण्डपदत्वादप्राप्तौ वचनमिदम् । द्रुरिवेति । वृक्ष हवेत्यर्थः । द्रणस इति । बहुव्रीहेरच् । नासिकाशब्दस्य नसादेशः । णत्वम् । ऋगयनमिति । 'ऋवर्णात्' इति वातिकस्याप्यत्रानुवृस्या णत्वं प्राप्तं गकारेण व्यवधानान्न भवतीति भावः । अत्र ऋचामयनमिति विग्रहप्रदर्शनं चिन्त्यम् , वाक्येन सज्ञानवगमात् । नच रघुनाथ इत्यादौ सज्ञायां णत्वं शङ्यम् , णत्वेन चेत्सज्ञा गम्यत इत्यर्थात् । इह तु कृते णत्वे सज्ञात्वभङ्गापत्तेनं णत्वम् । अत एव 'भृतोऽसज्ञायां तु सूत्रभाष्ये 'य एते सज्ञायामिति विधीयन्ते, तेषु नैवं विज्ञायते सज्ञायामभिधेयायामिति । किं तर्हि प्रत्ययान्तेन चेत्सना गम्यते' इत्युक्तम् । खुरेति । खुरखराभ्यां परस्य नासिकाशब्दस्य बहुवीही सज्ञायां नसादेशो वेति वक्तव्यमित्यर्थः । प्रकृतत्वादेव सिद्धे नसादेशवचनम् अच्प्रत्ययानुवृत्तिनिवृ. त्यर्थम् । खुरणा इति । खुराविव नासिके यस्येति विग्रहः । नसादेशः । 'पूर्वपदासज्ञायाम्' इति णत्वम् । 'अत्वसन्तस्य' इति दीर्घः । खरणा इति। खर. For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy