SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६० सिद्धान्तकौमुदी [ बहुव्रीहिसमास खरणसः । (८५८) उपसर्गाच ५|४|११६ ॥ प्रादेर्यो नासिकाशब्दस्तदन्ताद्बहुव्रीहेरच् नासिकाया नसादेशश्च । असज्ञार्थमिदं वचनम् । उन्नता नासिका यस्य सः उन्नसः । उपसर्गादनोत्परः । इति सूत्रम् । तद्भक्त्वा भाष्यकार आह(५) उपसर्गाद्बहुलम् ८|४|२८|| उपसर्गस्थान्निमित्तात्परस्य नसो नस्य णःस्याद्बहुलम् । प्रणसः । ' वेर्गो वक्तव्यः' ( वा ३३६५ ) । विगता नासिका यस्य विप्रः । 'ख्यश्च' ( वा ३३६६ ) । विख्यः । कथं तर्हि 'विनसा हतबान्धवा' इति भट्टिः । विगतया नासिकयोपलक्षितेति व्याख्येयम् । (८६०) सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदाः ५|४|१२० ॥ एते बहुत्री रूपा नासिका यस्येति विग्रहः । पक्षे खुरनासिका इति खरनासिक इति च न भवतीत्याह-पक्षे अजपीष्यते इति । अच्प्रत्ययसहितः नसादेश इत्यर्थः । भाष्ये त्विदं न यते । उपसर्गाच्च । नन्वम्नासिकाया इत्येव सिद्धे किमर्थमिदमित्यत आह- असञ्ज्ञार्थ - मिति । उपसर्गादनोत्पर इति सूत्रमिति । तत्र हि 'नश्च धातुस्थो' इति सूत्रान्नसिति लुप्तषष्ठीकमनुवर्तते । 'रणाभ्यां नो णः' इत्यनुवर्तते । उपसर्गस्थाद्वेफषकारात्परस्य नसो नस्य णः स्यात्, ओत्परस्तु नकारो णत्वं न प्राप्नोतीत्यर्थः । खण्डपदस्थत्वादप्राप्ताविदं सूत्रम् । 'प्रण आषि तारिषत्' इत्याद्युदाहरणम्, अनोत्परः किम् ? 'प्र नो मुनतम् अत्र ओत्परकत्वान्न णत्वमिति स्थितिः । तद्भक्त्वेति । 'अनोत्परः' इत्यपनीय तत्स्थाने बहुलमिति च कृत्वा भाष्यकार आहेत्यर्थः । तथाच फलितं सूत्रमा ह - उपसर्गाद्बहुलम् । निमित्तादिति । रेफषकारात्मकादित्यर्थः । ' उपसर्गादनोत्परः इति यथाश्रुते तु 'प्रणो नय' इत्यादावव्याप्तिः, 'प्र न - पूषा' इत्यादावतिव्याप्तिचेति भावः । प्रयस इति । प्रगता नासिका यस्येति विग्रहः । ' उपसर्गाच्च' इत्यच् नासिकाया नस् । ' उपसर्गाद्बहुलम्' इति णत्वमिति भावः । वेरिति । वेः परो यो नासिकाशब्दः सः ग्रा देशं प्राप्नोतीति भावः । विग्र इति । विगता नासिका यस्येति विग्रहः । प्रकृतवार्तिकेन नासिकाशब्दस्य प्रादेश इति भावः । विगता नासिका यस्येति विग्रहे अचि नसादेशे टापि च विनसेति भट्टिप्रयोगो न युज्यते । ग्रादेशस्यास्य नसादेशं प्रत्यपवादत्वादित्याक्षिपति - कथं तद्दति । समाधत्ते - विगतयेति । विगता नासिका । विनासिका प्रादिसमासः । अबहुव्रीहिस्वात् न ग्रादेशः । किन्तु टायां 'पद्दन्' इति नसादेशे विनसेति तृतीयान्तं रूपम् । उपलक्षितेत्यध्याहार्यमिति भावः । For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy