SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदा [स्रीप्रत्यय - इति ज्ञापनान्न भवति । इनः शानचः शित्वेन क्वचिदनुबन्धकायेंऽप्यनल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयो । ऐन्द्री। औत्सी। ऊरुद्वयसी-ऊरुदनी-ऊरुमात्री । दाह-श्नः शानच् इति । श्ना इत्यस्मात् षष्टयेकवचने आल्लोपे श्न इति रूपम् , 'आतो धातोः' इत्यन्न आत इति योगविभागमाश्रित्य अधातोरपि क्वचिदाल्लोपा. भ्युपगमात् । 'हलः श्नः शानझौ' इति श्नाप्रत्ययस्य शानजादेशो विधीयते । तत्र स्थानिवत्त्वेनैव सिद्धत्वात् शानचः शित्वं व्यर्थम् । नचानल्विधाविति निषेधः शयः, 'न ल्यपि इति लिङ्गन अनुबन्धकायें अनल्विधाविति निषेधाभावस्यानुपदमेवोक्त. त्वात् । एवं च कचिदनुबन्धकार्येऽपि अनलिवधाविति निषेधप्रवृत्तिर्विज्ञायते । तथाच वक्ष्यमाणेत्यत्र टिदुगित्कायें दीपि 'अनल्विधाविति निषेधप्रवृत्त्या स्थानिवत्त्वाभा. वेन टित्त्वोगित्त्वयोरभावात् न डीवित्यर्थः । वस्तुतस्तु 'लाश्रयमनुबन्धकार्य नादे. शानाम्' इत्यत्र यासुटो खित्वं न ज्ञापकम् , तस्य तिप्सिब्मिबर्थत्वात् । नहि लिङा. देशत्वेऽपि तिप्सिब्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम्, 'हल: श्नः शानज्झौ' इति सूत्रे भाष्ये 'डिच्च पिन्न, पिच्च डिन्न' इति प्रपञ्चितत्वात् । तथा निश्शानच: शित्वमपि न लिङ्गम् , तत्र शित्त्वस्य भाष्ये प्रत्याख्यातत्वात् प्रत्युत शित्त्वस्य ज्ञापकत्वे 'सेपिच्च' इति हेरपित्त्वस्य तातको डित्वस्य च वैयर्थ्य मिति भाष्ये दूषणाभिधानाच्च । तस्मात् वक्ष्यमाणेत्यत्र डीबेव युक्तः, टाप त्वसाधुरेव । अजा. दित्वासाबिति या कथञ्चित् समाधेयमित्यास्तां तावत् ।। सौपणेयीति । सुपाः अपत्यं स्त्री इत्यर्थे 'स्त्रीभ्यो ढक इति ढकि 'आयनेया इत्येयादेशः । 'यस्येति च' इतीकारलोपः, 'किति च' इत्यादिवृद्धिः । सोपणेयशब्दात् डोप् , 'यस्येति च इत्यकारलोपा, सौपणेयीति रूपम् । नच 'निरनुबन्धकग्रहणे न सानुबन्धकस्य' इति परिभाषया 'शिलाया ढ' 'ढश्छन्दसि' इत्यनयोरेव ग्रहणमिति वाच्यम् , तयोः स्त्रियामप्रवृत्तेरगत्या सानुबन्धकस्य ढस्य ग्रहणादिति भाष्ये स्पष्टम् । ऐन्द्रीति । इन्द्रो देवता अस्या आमिक्षाया इति विग्रहः, 'सास्य देवता' इत्यणि, 'यस्येति च' इत्यकारलोपः, आदिवृद्धिः, ऐन्द्रशब्दात् डीप् , 'यस्येति च इत्यकारलोपः । आदिवृद्धिः, ऐन्द्रशब्दात् डीप, 'यस्येति च' इत्यकारलोपः इन्द्रस्येयमिति वा विग्रह, 'तस्येदम्' इत्यण् । औत्सीति । 'उत्सः प्रस्रवणं वारि इत्यमरः । ऋषिविशेषो या उत्सः। 'उत्सस्येयमिति विग्रहः । 'उत्सादिभ्योऽ' 'यस्येति च ङीप् । उत्सल्यापत्यं स्त्री औत्सी इति तु नोदाहरणम् । जातेरिस्यनु. वृत्तौ 'शारवायलो डीन्' इत्येव सिद्धेः 'गोनं च चरणैः सह' इत्यपस्यप्रत्ययान्तस्य जातिवादित्यलम् । ऊरुद्वयसो ऊरुदधनी ऊरुमात्रीति । उरूपमाणमस्या इति विग्रहः । For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy