________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २५]
बालमनोरमासहिता ।
६५५
-
समानः पक्षोऽस्येत्यादि । (१०१३) ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ॥३॥५॥ एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपद इत्यादि । (२०१४) चरणे ब्रह्मचारिणि ।। ८६॥ ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याचरणे समानत्वेन गम्यमाने। चरणः शाखा । ब्रह्म वेदः । तदध्ययनार्थ व्रतमपि ब्रह्म, तच्चरतीति ब्रह्मचारी । समानस्य सः, सब्रह्मचारी । (१०१५) तीर्थ ये ६।३।७॥ तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः । एकगुरुकः। 'समानतीर्थे वासी (सू ___ ज्योतिर्जपनद। अच्छन्दोऽर्थे वचनमिदम् । सज्योतिरिति । समान ज्योतिर्यस्येति विग्रहः । एवं सजनपद इत्यादीति। सरात्रिः, सनाभिः, सनामा, सगोत्रः, सरूपः, स. स्थानः, सवर्णः, सवयाः, सवचनः, सबन्धुः । चरणे ब्रह्मचारिणि । समानस्येति स इति चानुवर्तते । उत्तरपदे इत्यधिकृतम् । तदाह-ब्रह्मचारिण्युत्तरपदै समानस्य सः स्यादिति । चरणे इति सप्तमी समानस्येत्यत्रान्वेति । चरणे विद्यमानस्येत्यर्थः। फलितमाहचरणे समानत्वेन गम्यमाने इति । तत्र चरणपदं व्याचष्टे-चरणः शाखेति । वैदिकप्रसि. द्धिरेवान मूलम् । ब्रह्मचारिपदं निर्वस्तुमाह-ब्रह्म वेद इति । 'वेदस्तत्त्वं तपो ब्रह्म इत्यमरः । तच्चरणार्थमिति । तस्य वेदस्य चरणम् अध्ययनं तच्चरणं व्रतमपि ब्रह्मशब्देन विवक्षितमित्यर्थः । गौण्या वृत्त्येति शेषः । तच्चरतीति । तत् प्रतं चरति अनुतिछतीत्यर्थे ब्रह्मचारिशब्द इत्यर्थः । 'सुप्यजातौ इति णिनिः। समानस्य स इति । समानो ब्रह्मचारीति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे सति सब्रह्मचारीति रूपमित्यर्थः । समानत्वं च वेदद्वारा बोध्यम् । तथाच समानवेदाध्ययनार्थं व्रत. चारीति फलितोऽर्थः । भाष्ये तु समाने ब्रह्मणि व्रतं चरतीत्यर्थे चरेणिनिः व्रतशब्दस्य लोपश्च अत्र निपात्यत इत्युक्तम् । ___तीर्थे ये । यशब्दात् अकारान्तात्सप्तम्येकवचनम्, अकारो न विवक्षितः, प्रत्यय इति विशेष्यमध्याहार्यम् । 'यस्मिन् विधिः' इति तदादिविधिः । तदाह-यादी प्रत्यये इति । नात्र यप्रत्ययान्ते तीर्थशब्दे परे इति व्याख्यातुं शक्यते। 'समानतीथें वासी' इति समानतीर्थशब्दात् कृतसमासादेव वासीति तद्धिताथै यप्रत्ययविधानात् । सच यप्रत्ययः अन्तरङ्गे समावे कृते एव भवति । 'समर्थानां प्रथमाद्वा' इति सूत्रेण परिनि. ष्टितादेव तद्धितोत्पत्तेर्वक्ष्यमाणत्वात् कृतेऽपि सभावे एकदेशविकृतन्यायेन भूतपूर्वगत्या वा समानतीर्थशब्दसत्त्वात् । अतः यप्रत्ययपरकत्वं समानशब्दस्य कथमित्यत माह-विवक्षिते इति । सतीर्थ्य इति । समाने तीथे वासीत्यर्थः । अत्र सामीप्ये सप्तमी। समानशब्दस्त्वेकपर्यायः । तीर्थशब्दो गुरौ । तदाह-एकगुरुक इति । तद्धितार्थे समा.
For Private and Personal Use Only