________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ६ ]
बालमनोरमासहिता ।
१०१
1
अनव्ययस्येति वाच्यम्' (वा ४९०१ ) । प्रातः कल्पम् । 'काम्ये रोरेवेति बाच्यम्" (वा ४९०२) नेह । गीः काम्यति । (१५३) इणः षः ८ | ३ | ३६॥ इणः परस्य विसर्गस्य षकारः स्यात्पूर्वविषये । सर्पिष्पाशम् । सर्पिष्कल्पम् । सर्पिष्कम् । सर्पिष्काम्यति । (१५४) नमस्पुरसोर्गत्योः ||३|४०|| गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात्कृञो योगे विभाषा गतिसंज्ञा । तदभावे नमः करोति । पुरोऽव्ययम्' (सू ७६८) इति नित्यं गतिसंज्ञा । पुरस्करोति । अगतित्वान्नेह । पूः पुरौ पुरः प्रवेष्टव्याः । (१५५) इदुदुपधस्य चाप्रत्ययस्य
पयस्पाशमिति । याप्ये पाशप् । कुत्सितं पय इत्यर्थः । यशस्कल्पमिति । ईषदसमाप्तौ कल्पप् । ईषदसमाप्तं यश इत्यर्थ: । यशस्कमिति । अज्ञाते कुत्सित इत्यादिना कः । यशस्काभ्यतीति । यश आत्मन इच्छतीत्यर्थे सुप आत्मन इत्यनुवृत्तौ काम्यच्चेति काम्यच् । सनाद्यन्ता इति धातुत्वाल्लडादयः अनम्ययस्य । सोऽपदादाविति विधिः अव्ययविसर्गस्य न भवतीत्यर्थः । प्रातःकल्पमिति । ईषदसमाप्तौ कल्पप् । ईषदसमाप्तः प्रातःकाल इत्यर्थः । अधिकरणशक्तिप्रधानस्यापि प्रातश्शब्दस्य वृत्तिविषये शक्तिमत्प्रधानत्वं न विरुध्यते, दोषाभूतमहः, दिवाभूता रात्रिरितिवत् । काम्ये रोः । काम्यप्रत्यये परतः स्थानिकस्यैव विसर्गस्य सोऽपदादाविति विधिर्भवतीत्यर्थः । गीःकाम्यतीति । गिरमात्मन इच्छतीत्यर्थं काम्यजादि पूर्ववत् । गृधातोः क्विपि 'ऋत इद्धातोः" इति इत्वे रपरत्वे रेफल्य विसर्गः । तस्य च रुस्थानिकत्वाभावान्न सत्त्वम् । किंतु. कुप्योरित्येव भवतीत्यर्थः । इणः षः । इण इति पञ्चमी । परस्येत्यध्याहार्यम् । विस
नीयस्येत्यनुवर्तते । तदाह - इणः परस्येति । पूर्वविषये इति । अत्र कुप्वोरिति अपदादाविति अनव्ययस्येति काम्ये रोरेवेति च सम्बध्यते इति भावः । तेन उच्चैः कल्पं, दोःपाश, गीः काम्यतीत्यादौ न षत्वमिति भावः । सर्पिष्पाशमित्यादौ पूर्ववत् पाशबादि। नमस्पुरसोः । इत उत्तरमपदादाविति न सम्बध्यते । विसर्जनीयस्य स इति कुप्वोरिति चानुवर्तते । तदाह - गतिसंज्ञयोरित्यादिना । कुप्वोरित्यस्यायमपवादः । नमस्करोतीति । नमस् इति सकारस्य रुत्वे विसर्गे तस्य कुप्वोरिति विधिं बाधित्वा अनेन सत्त्वम् । ननु प्रादिषु पाठाभावात् कथं नमश्शब्दस्य गतित्वमित्यत आह-साक्षादिति । विभाषेति । साक्षात्प्रभृतीनि चेत्यत्र विभाषा कृञीत्यतो विभाषेत्यनुवृत्तेरिति भावः । तदभाव इति । गतित्वाभावपक्षे कुप्वोरिति जिह्वामूलीये सति नमकरोतीति रूपमित्यर्थः । पुरः प्रवेष्टव्या इति । 'पृ पालनपूरणयोः” भ्राजभासेत्यादिना क्विप्, उदोष्ट्यपूर्वस्येत्युत्वं, रपरत्वं ततो जसि अनव्ययत्वेन गतित्वाभावान्न सत्त्वम् । अनम्ययत्वसूचनार्थमेव पूः पुरौ इत्युक्तम् ।
इदुदुपधस्य । विसर्जनीयस्येत्यनुवर्तते । इदुदुपधस्येति तद्विशेषणम् । इदुतौ उपधे
For Private and Personal Use Only